SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १२७ [सू० ९१] द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । रोहितांशाभवनेन प्रागुक्तमानेनाऽलङ्कृतः, यतश्च रोहितांशा नदी रोहिनदीसमानमाना उत्तरतोरणेन निर्गत्य पश्चिमसमुद्रं प्रविशति स रोहितांशाप्रपातहूद इति । जंबू इत्यादि, हरिप्पवायहहे चेव त्ति हरिन्नदी प्रागुक्तलक्षणा यत्र निपतति यश्च द्वे शते चत्वारिंशदधिके आयाम-विष्कम्भाभ्यां सप्त शतानि एकोनषष्ट्यधिकानि परिक्षेपेण यस्य च मध्यभागे हरिद्देवताद्वीपः द्वात्रिंशद्योजनायाम-विष्कम्भः एकोत्तरशतपरिक्षेप: 5 जलान्ताद् द्विक्रोशोच्छितो हरिद्देवताभवनभूषितोपरितनभागोऽसौ हरित्प्रपातहद इति । हरिकंतप्पवायदहे चेव त्ति हरिकान्तोक्तरूपा महानदी यत्र निपतति यश्च हरित्कुण्डसमानो हरिद्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यभागः स हरिकान्ताप्रपातहद इति । __ जंबू इत्यादि, सीयप्पवायद्दहे चेव त्ति यत्र नीलवतः शीता निपतति यश्च 10 चत्वार्यशीत्यधिकानि योजनशतानि आयामविष्कम्भाभ्यां पञ्चदशाऽष्टादशोत्तराणि विशेषन्यूनानि परिक्षेपेण यस्य च मध्ये शीताद्वीपश्चतुःषष्टियोजनायाम-विष्कम्भो व्युत्तरयोजनशतद्वयपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितः शीतादेवीभवनेन विभूषितोपरितनभागः स शीताप्रपातहद इति । सीतोदप्पवायदहे चेव त्ति यत्र निषधाच्छीतोदा निपतति स शीतोदाप्रपातह्रदः शीताप्रपातहदसमान: 15 शीतादेवीद्वीपभवनसमानशीतोदादेवीद्वीपभवनश्चेति । ___जंबू इत्यादि, नरकान्ता-नारिकान्ताप्रपातह्रदौ च हरिकान्ताहरित्प्रपातहदसमानौ स्वसमाननामद्वीपदेवीकाविति । एवमित्यादि, सुवर्णकूला-रूप्यकूलाप्रपातह्रदौ रोहितांशारोहित्प्रपातह्रदसमवक्तव्यौ, विशेषस्तूह्य इति । जंबू इत्यादि, रक्ता-रक्तवतीप्रपातह्रदौ गङ्गा-सिन्धुप्रपातह्रदसमानवक्तव्यौ, नवरं 20 रक्ता पूर्वोदधिगामिनी रक्तवती तु पश्चिमोदधिगामिनीति । [सू० ९१] जंबूमंदरदाहिणेणं भरहे वासे दो महानईओ पन्नत्ताओ बहु[सम जाव गंगा चेव सिंधू चेव । एवं जधा पवातद्दहा एवं गंदीओ भाणियव्वाओ, जाव एरवए वासे दो महानईओ पन्नत्ताओ बहुसमतुल्लाओ जाव रत्त च्चेव रत्तवती चेव । 25 १. नदीओ वि भा क० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy