SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १२६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे युक्तेन विवृतमहामकरमुखप्रणालेन सातिरेकयोजनशतिकेन च मुक्तावलीकल्पेन प्रपातेन यत्र प्रपतति यश्च षष्टियोजनायामविष्कम्भः किञ्चिन्न्यूननवत्युत्तरशतपरिक्षेपो दशयोजनोद्वेधो नानामणिनिबद्धः यस्य च पूर्वापरदक्षिणासु त्रयस्त्रिसोपानप्रतिरूपकाः सविचित्रतोरणाः मध्यभागे च गङ्गादेवीद्वीपोऽष्टयोजनायामविष्कम्भः सातिरेकपञ्चविंशतिपरिक्षेपः जलान्ताद् 5 द्विक्रोशोच्छ्रितो वज्रमयो गङ्गादेवीभवनेन क्रोशायामेन तदर्द्धविष्कम्भेन किञ्चिदूनक्रोशोच्चेनाऽनेकस्तम्भशतसन्निविष्टेनाऽलङ्कृतोपरितनभागः, यतश्च दक्षिणतोरणेन विनिर्गत्य प्रवहे सक्रोशषड्योजनविष्कम्भाऽर्द्धक्रोशोद्वेधा गङ्गा उत्तरभरतार्द्ध विभजन्ती सप्तभिः नदीसहस्रैरापूर्यमाणा अधः पूर्वतः खण्डप्रपातगुहाया वैताढ्यपर्वतं विदार्य दक्षिणार्द्धभरतं विभजन्ती तन्मध्यभागे गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिर्नदीसहस्रः समग्रा 10 मुखे सार्द्धद्विषष्टियोजनविष्कम्भा सक्रोशयोजनोद्वेधा जगतीं विदार्य पूर्वलवणसमुद्रं प्रविशति स गङ्गाप्रपातह्रदः, एतदनुसारेण सिन्धुप्रपातह्रदोऽपि व्याख्यातव्यः, अत एव एतौ बहसमादिविशेषणावायाम-विष्कम्भो-द्वेध-परिणाहैर्भावनीयाविति, सर्व एव प्रपातहदा दशयोजनोद्वेधा वक्तव्या इति । यच्चेह वर्षधरनद्यधिकारे गङ्गा-सिन्धु रोहितांशानां तथा सुवर्णकूला-रक्ता-रक्तवतीनां नाभिधानं तद् द्विस्थानकानुरोधात्, 15 तासां हि एकैकस्मात् पर्वतात् त्रयं त्रयं प्रवहतीति द्विस्थानके नावतार इति । एवमित्यादि, एवमिति प्राग्वत रोहियप्पवायदहे चेव त्ति रोहिद् उक्तस्वरूपा यत्र पतति यश्च सविंशतिकं योजनशतमायाम-विष्कम्भाभ्यां किञ्चिन्न्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण यस्य च मध्यभागे रोहिद्वीपः षोडशयोजनायाम-विष्कम्भ: सातिरेकपञ्चाशद्योजनपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितो यश्च रोहिदेवताभवनेन 20 गङ्गादेवताभवनसमानेन विभूषितोपरितनभागः स रोहितप्रपातह द इति । रोहियंसप्पवायद्दहे चेव त्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्मह्रदोत्तरतोरणेन निर्गत्य रोहितांशा महानदी द्वे षट्सप्तत्युत्तरे योजनशते सातिरेके उत्तराभिमुखी पर्वतेन गत्वा योजनायामया अर्द्ध त्रयोदशयोजनविष्कम्भया क्रोशबाहल्यया जिह्विकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च 25 रोहित्प्रपातकुण्डसमानमानः यस्य च मध्ये रोहितांशाद्वीपो रोहिद्द्वीपसमानमानः १. °भागेन गत्वा पा० जे२ ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy