________________
१२२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे कूटानि, द्वयाभिधानं च प्राग्वदिति । एवमित्यादि शिखरिणि हि वर्षधरे सिद्ध १-शिखरि २-हैरण्यवत ३-सुरादेवी ४-रक्ता ५-लक्ष्मी ६-सुवर्णकूला ७-रक्तोदा ८-गन्धापाति ९-ऐरावत १०-तिगिच्छकूटा ११ ख्यानि एकादश कूटानि, इहापि द्वयोर्ग्रहणं तथैवेति।
[सू० ८८] जंबूमंदरउत्तरदाहिणेणं चुल्लहिमवंत-सिहरीसु वासहरपव्वतेसु दो 5 महदहा पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं णातिवटुंति,
आयाम-विक्खंभ-उव्वेह-संठाण-परिणाहेणं, तंजहा-पउमद्दहे चेव पुंडरीयद्दहे चेव, तत्थ णं दो देवयाओ महिड्डियाओ जाव पलिओवमट्टितीयाओ परिवसंति, तंजहा-सिरी चेव लच्छी चेव । एवं महाहिमवंत-रुप्पीसु वासहरपव्वएसु दो
महद्दहा पन्नत्ता बहुसम [जाव तंजहा-]महापउमद्दहे चेव महापुंडरीयद्दहे चेव, 10 देवताओ हिरि च्चेव बुद्धि च्चेव । एवं निसढ-नीलवंतेसु तिगिंच्छिद्दहे चेव केसरिद्दहे चेव, देवताओ धिती चेव कित्ती चेव १२॥
टी०] जंबू इत्यादि, इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणैते पद्मादयः षडेव हदाः, तद्यथा
पउमे य १ महापउमे २ तिगिंछी ३ केसरी ४ दहे चेव । 15 हरए महपुंडरीए ५ पुंडरीए चेव य ६ दहाओ ॥ [बृहत्क्षेत्र० ५६८]
हिमवत उपरि बहुमध्यभागे पद्महूद एवं शिखरिणः पौण्डरीकः, तौ च पूर्वापरायतौ सहस्रं पञ्चशतविस्तृतौ चतुष्कोणौ दशयोजनावगाढौ रजतकूलौ वज्रमयपाषाणौ तपनीयतलौ सुवर्णमध्यरजतमणिवालुकौ चतुर्दशमणिसोपानौ शुभावतारौ तोरण-ध्वज
च्छत्रादिविभूषितौ नीलोत्पल-पुण्डरीकादिचितौ विचित्रशकुनि-मत्स्यविचरितौ 20 षट्पदपटलोपभोग्याविति । तत्थ णं ति तयोः महाहूदयो₹ देवते परिवसतः, पद्महूदे
श्रीः, पौण्डरीके च लक्ष्मीः, ते च भवनपतिनिकायाभ्यन्तरभूते, पल्योपमस्थितिकत्वाद्, व्यन्तरदेवीनां हि पल्योपमार्द्ध मेवायुरुत्कर्ष तो भवति, भवनपतिदेवीनां तूत्कर्षतोऽर्द्धपञ्चमपल्योपमान्यायुर्भवतीति, आह च
अद्भुट्ठ अद्धपंचम पलिओवम असुरजुयलदेवीणं । 25 सेस वणदेवयाण य देसूण अद्धपलियमुक्कोसं ॥ [बृहत्सङ्ग्र० ६] ति ।
१. 'ड्डीयाओ क० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org