SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १२१ [सू० ८७] द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । १०-वैश्रवण ११ कूटाभिधानानि भवन्ति, पूर्व दिशि सिद्धायतनकूटं ततः क्रमेणापरतोऽन्यानि सर्वरत्नमयानि स्वनामदेवतास्थानानि पञ्चयोजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, आद्ये सिद्धायतनं पञ्चाशद्योजनायामं तदर्द्धविष्कम्भं षट् त्रिंशदुच्चम् अष्ट योजनायामै श्चतुर्यो जनविष्कम्भप्रवेशै स्त्रिभिारै रुपेतं जिनप्रतिमाष्टोत्तरशतसमन्वितम्, शेषेषु प्रासादाः सार्द्धद्विषष्टियोजनोच्चास्तदर्द्ध- 5 विस्तृतास्तन्निवासिदेवतासिंहासनवन्त इति। इह तु प्रकृतनगनायकनिवासभूतत्वादेवनिवासभूतानामेषां मध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च वैश्रमणकूटं द्विस्थानकानुरोधेनेति, आह च कत्थइ देसग्गहणं कत्थइ घेप्पंति निरवसेसाई । उक्कम-कमजुत्ताई कारणवसओ निउत्ताई ॥ [विशेषाव० ३८८] ति । कूटसङ्ग्रहश्चायम्वेयड्ड ९ मालवंते ९ विज्जुप्पह ९ निसह ९ नीलवंते य ९ । णव णव कूडा भणिया एक्कारस सिहरि ११ हिमवंते ११ ॥ रुप्पि ८ महाहिमवंते ८ सोमणसे ७ गंधमायणे चेय ७ । अट्ठट्ट सत्त सत्त य वक्खारगिरीसु चत्तारि ॥ [बृहत्क्षेत्र० १३२-१३३] त्ति । 15 जंबू इत्यादि, महाहिमवति ह्यष्टौ कूटानि, सिद्ध १-महाहिमवत् २-हैमवत ३रोहिता ४-ह्री ५-हरिकान्ता ६-हरि ७-वैडूर्य ८ कूटाभिधानानि, द्वयग्रहणे च कारणमुक्तमिति। एवमित्यादि, एवंकरणात् जंबू इत्यादिरभिलापो दृश्यः, निषधवर्षधरपर्वते हि सिद्ध १-निषध २-हरिवर्ष ३-प्राग्विदेह ४-हरि ५-धृति ६शीतोदा ७-अपरविदेह ८-रुचकाख्यानि ९ स्वनामदेवतानि नव कूटानि, इहापि 20 द्वितीयान्त्ययोर्ग्रहणं प्राग्वद् व्याख्येयमिति । जंबू इत्यादि, नीलवर्षधरपर्वते हि सिद्ध १-नील २-पूर्वविदेह ३-शीता ४-कीर्ति ५-नारीकान्ता ६-ऽपरविदेह ७-रम्यक ८-उपदर्शना ९ ख्यानि नव कूटानि, इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति । एवमित्यादि, रुक्मिवर्षधरे हि सिद्ध १-रुक्मि २-रम्यक ३-नरकान्ता ४-बुद्धि ५-रूप्यकूला ६-हैरण्यवत ७-मणिकाञ्चनकूटा ८ ख्यानि अष्ट 25 १. 'मायणनगे य पा० जे२ । 'मायणे नगे य खं० । 'मायणे कूडा इति बृहत्क्षेत्रसमासे ॥ २. पं० ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy