SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ११६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे परिवसंति, तंजहा-गरुले चेव वेणुदेवे, अणाढिते चेव जंबूदीवाहिवती । [टी०] जंबू इत्यादि, दक्षिणेन देवकुरवः उत्तरेण उत्तरकुरवः, तत्र आद्या विद्युत्प्रभसौमनसाभिधानवक्षस्कारपर्वताभ्यां गजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवर्द्रयामावृताः, उभये चामी अर्द्धचन्द्राकाराः दक्षिणोत्तरतो विस्तृताः, तत्प्रमाणं 5 चेदम् अट्ठ सया बायाला एक्कारस सहस दो कलाओ य । विक्खंभो उ कुरूणं तेवन सहस्स जीवा सिं ॥ [बृहत्क्षेत्र० २६३] पूर्वापरायामाश्चैत इति । महतिमहालय त्ति महान्तौ गुरू अतीति अत्यन्तं महसां तेजसां महानां वा उत्सवानामालयौ आश्रयौ महातिमहआलयौ महातिमहालयौ वा, 10 समयभाषया वा महान्तावित्यर्थः, महाद्रुमौ प्रशस्ततया, आयामो दैर्ध्वम्, विष्कम्भो विस्तारः, उच्चत्वम् उच्छ्रयः, उद्वेधो भुवि प्रवेशः, संस्थानम् आकारः, परिणाहः परिधिरिति, तत्रानयोः प्रमाणम् रयणमया पुप्फफला विक्खंभो अट्ठ अट्ठ उच्चत्तं । जोयणमद्धोवेहो खंधो दोजोयणुव्विद्धो ॥ 15 दो कोसे वित्थिन्नो विडिमा छज्जोयणाणि जंबूए । चाउद्दिसिं पि साला पुव्विल्ले तत्थ सालम्मि ॥ भवणं कोसपमाणं सयणिज्जं तत्थऽणाढियसुरस्स । तिसु पासाया सालेसु तेसु सीहासणा रम्मा ॥ [बृहत्क्षेत्र० २८६-२८७-२८८] इति । शाल्मल्यामप्येवमेवेति, कूटाकारा शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, 20 सुष्ठ दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, तत्थ त्ति तयोर्महाद्रुमयोः महेत्यादि महती ऋद्धिः आवास-परिवार-रत्नादिका ययोस्तौ महर्द्धिकौ, यावद्ग्रहणात् महज्जुइया महाणुभागा महायसा महाबल त्ति, तत्र द्युति: शरीराभरणदीप्तिः, अनुभाग: अचिन्त्या शक्तिर्वैक्रियकरणादिका, यश: ख्यातिः, बलं सामर्थ्य शरीरस्य, सौख्यम् आनन्दात्मकम्, महेसक्खा इति क्वचित् पाठः, महेशौ महेश्वरावित्याख्या ययोस्तौ 25 महेशाख्याविति, पल्योपमं यावत् स्थिति: आयुर्ययोस्तौ तथा । गरुडः सुपर्णकुमारजातीयः, वेणुदेवो नाम्ना, अणाढिओ त्ति नाम्ना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy