________________
[सू०८१-८२] द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः ।
यथा च भरतस्यैरवतस्यापि तथैवेति । एकार्थिकानि वैतानि पदानि, भृशार्थत्वाच्च न पुनरुक्ततेति, उक्तं च
अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु। ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥ [ ] इति ।
तद्यथा- भरहे चेवेत्यादि, उत्तरदाहिणेणं ति एतस्य पाठस्य यथा- 5 सङ्ख्यन्यायानाश्रयणाद् यथासत्तिन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे भागे भरतमा हिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, एवमिति भरतैरवतवत् एतेनाभिलापेन ‘जंबुद्दीवे दीवे मंदरस्से'त्यादिना उच्चारणेनाऽपरं सूत्रद्वयं वाच्यम्, तयोश्चायं विशेषः- हेमवए चेवेत्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये, हैरण्यवतमुत्तरतः रुक्मि-शिखरिणोरन्तः, हरिवर्षं दक्षिणतो महाहिमवन्निषधयोरन्तः, 10 रम्यकवर्षं चोत्तरतो नील-रुक्मिणोरन्तरिति। _[सू० ८१] जंबूदीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं दो खेत्ता पन्नत्ता बहुसमतुल्ला अविसेस जाव पुव्वविदेहे चेव अवरविदेहे चेव १॥
[टी०] जंबूदीवेत्यादि, पुरत्थिमपच्चत्थिमेणं ति पुरस्तात् पूर्वस्यां दिशि पश्चात् पश्चिमायामित्यर्थः, यथाक्रमं पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, एवमपरविदेह इति, 15 एतेषां चायामादि ग्रन्थान्तरादवसेयमिति ।
[सू० ८२] जंबुमंदरस्स पव्वतस्स उत्तरदाहिणेणं दो कुराओ पन्नत्ताओ बहुसमतुल्लाओ जाव देवकुरा चेव उत्तरकुरा चेव । तत्थ णं दो महतिमहालया महादुमा पन्नत्ता बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णाइवटुंति आयामविक्खंभुच्चत्तोव्वेध-संठाण-परिणाहेणं, तंजहा-कूडसामली चेव जंबू चेव 20 सुदंसणा । तत्थ णं दो देवा महिड्डिया जाव महासोक्खा पलिओवमट्टितीया १. “पुनरुक्तापवादमर्थविशेषापेक्षं दर्शयति- अनुवादादर । 'पण्डितमानय' इत्युक्ते पण्डितो देवदत्त इत्यनुवादो न पुनरुक्तम् । एवमादरे स्वामिन् स्वामिन्निति । वीप्सायां ग्रामो ग्रामो रमणीयः । भृशार्थे घनं घनं मृदु मृदु शनैः शनैरिति। विनियोगे घटं कुरु घटं कुर्विति । हेतौ कृतकत्वादनित्यो घटः, तस्मात् कृतकत्वादिति । असूयायां विपर्यस्याऽऽस्यं हसति हसतीति । ईषदीषदिति स्तोकं स्तोकमिति । सम्भ्रमे स्वागतं स्वागतमिति । विस्मये विद्याधरो विद्याधर इति । गणने एकमेकं द्वे द्वे इति । स्मरणे आ ! विदितो विदितः पाटलिपुत्रे दृष्टो दृष्टोऽसीति।" इति मल्लवादिक्षमाश्रमणविरचितनयचक्रस्य सिंहसूरिगणिवादिक्षमाश्रमणविरचितायां वृत्तौ पृ० १३१।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org