SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ११४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे जम्बूद्वीपप्रकरणं परिपूर्णचन्द्रमण्डलाकारं जम्बूद्वीपं तन्मध्ये मेरुम् उत्तरदक्षिणतः क्रमेण वर्षाणि च स्थापयित्वा, तद्यथा भरहं हेमवयं ति य हरिवासं ति य महाविदेहं ति । रम्मयमेरन्नवयं एरवयं चेव वासाइं ॥ [बृहत्क्षेत्र० २३] ति । तथा वर्षान्तरेषु वर्षधरपर्वतान् कल्पयित्वा, तद्यथाहिमवंत १ महाहिमवंत २ पव्वया निसढ ३ नीलवंता य ४ । रुप्पी ५ सिहरी ६ एए वासहरगिरी मुणेयव्वा ॥ [बृहत्क्षेत्र० २४] इति । सर्वमवबोद्धव्यमिति। मन्दरस्य मेरोः, उत्तरा च दक्षिणा च उत्तरदक्षिणे तयोरुत्तरदक्षिणयोरिति वाक्ये 10 उत्तरदक्षिणेनेति स्याद्, एनप्रत्ययविधानादिति, द्वे वर्षे क्षेत्रे प्रज्ञप्ते जिनैः, समतुल्यशब्दः सदृशार्थः, अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः, अविशेषे अविलक्षणे नग-नगरनद्यादिकृतविशेषरहिते, अनानात्वे अवसर्पिण्यादिकृतायुरादिभावभेदवर्जिते, किमुक्तं भवतीत्याह- अन्योन्यं परस्परं नातिवर्तेते, इतरेतरं न लङ्घयत इत्यर्थः, कैरित्याह आयामेन दैर्येण विष्कम्भेन पृथुत्वेन संस्थानेन आरोपितज्याधनुराकारेण परिणाहेन 15 परिधिनेति, इह च द्वन्द्वैकवद्भावः कार्य इति, अथवा बहुसमतुल्ये आयामतः, तथाहिभरतपर्यन्तश्रेणी चोद्दस य सहस्साई सयाई चत्तारि एगसयराई। ___ भरहद्धुत्तरजीवा छा य कला ऊणिया किंचि ॥ [बृहत्क्षेत्र० ४९] कला च योजनस्यैकोनविंशतितमो भाग इति १४४७१ १५ , ऐरवतेऽप्येवम् । 20 तथा अविशेषे विष्कम्भतः, तथाहि - पंच सए छव्वीसे छच्च कला वित्थडं भरहवासं [बृहत्क्षेत्र० २९] ति, ५२६ १६ , अयमेव चैरवतस्यापीति । अनानात्वे संस्थानतः, अन्योन्यं नातिवर्तेते परिणाहतः, परिणाहश्च ज्याधनुःपृष्ठयोर्यत् प्रमाणम्, तत्र ज्याप्रमाणमुक्तम्, धनुःपृष्ठप्रमाणं त्विदम् चोद्दस य सहस्साइं पंचेव सयाई अट्ठवीसाइं । 25 एगारस य कलाओ धणुपटुं उत्तरद्धस्स ॥ [बृहत्क्षेत्र० ५०] १४५२८ १९ । १. “एनबन्यतरस्यामदूरेऽपञ्चम्याः ''- पा० ५।३।३५।। २. अविशेषलक्षणे जे१ ॥ ३. एर जे१ पा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy