________________
5
११०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पडिवण्णस्से [व्यवहार०९।२४२] त्यादि, इयं च द्रव्यतः प्रश्रवणविषया क्षेत्रतो ग्रामादेर्बहिः कालतः शरदि निदाघे वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा तु षोडशभक्तेन, भावतस्तु दिव्याधुपसर्गसहनमिति, एवं महत्यपि, नवरं भुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति ।
यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्र इव कलावृद्धि-हानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि- शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य ततः प्रतिदिनं कवलवृद्धया पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदश भुक्त्वा प्रतिदिनमेकहान्याऽमावास्यायामेकमेव यस्यां भुङ्क्ते सा यवमध्या चन्द्रप्रतिमेति, यस्यां
तु कृष्णप्रतिपदि पञ्चदश भुक्त्वा एकैकहान्याऽमावास्यायामेकं शुक्लप्रतिपदि चैकमेव 10 ततः पुनरेकैकवृद्ध्या पूर्णिमायां पञ्चदश भुङ्क्ते सा वज्रस्येव मध्यं यस्यां तन्वित्यर्थः सा वज्रमध्या चन्द्रप्रतिमेति, एवं भिक्षादावपि वाच्यमिति ।
[सू० ७८] दुविहे सामाइए पन्नत्ते, तंजहा-अगारसामाइए चेव अणगारसामाइए चेव ।
[टी०] प्रतिमाश्च सामायिकवतामेव भवन्तीति सामायिकमाह-दविहेत्यादि, समानां 15 ज्ञानादीनामायो लाभः समायः, स एव सामायिकमिति, तद् द्विविधम् अगारवदनगारस्वामिभेदाद्, देश-सर्वविरती इत्यर्थः । [सू० ७९] दोण्हं उववाते पन्नत्ते, तंजहा-देवाणं चेव नेरइयाणं चेव ९। दोण्हं उव्वदृणा पन्नत्ता, तंजहा-णेरइयाणं चेव भवणवासीणं चेव २॥
दोण्हं चयणे पन्नत्ते, तंजहा-जोइसियाणं चेव वेमाणियाणं चेव ३। 20 दोण्हं गब्भवक्कं ती पन्नत्ता, तंजहा-मणुस्साणं चेव पंचेंदियतिरिक्खजोणियाणं चेव ४। ___ दोण्हं गब्भत्थाणं आहारे पन्नत्ते, तंजहा-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ५।
दोण्हं गब्भत्थाणं वुड्डी पन्नत्ता, तंजहा-मणुस्साण चेव पंचेंदियतिरिक्ख25 जोणियाण चेव ६। एवं निवुड्डी ७, विगुव्वणा ८, गतिपरियाए ९, समुग्घाते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org