________________
[सू० ७५]
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः ।
१०७ त्वभिन्ना: १, स्वयमेव भिद्यत इति भिदुरम्, भिदुरत्वं धर्मो येषां ते भिदुरधर्माण: अन्तर्भूतभावप्रत्ययोऽयम्, प्रतिपक्षः प्रतीत एवेति २, परमाश्च ते अणवश्चेति परमाणवः, नोपरमाणवः स्कन्धाः ३, सूक्ष्माः येषां सूक्ष्मपरिणामः, शीतोष्ण-स्निग्धरूक्षलक्षणाश्चत्वार एव च स्पर्शाः, ते च भाषादयः, बादरास्तु येषां बादरः परिणामः पञ्चादयश्च स्पर्शाः, ते चौदारिकादयः ४, पार्श्वन स्पृष्टा देहत्वचा छुप्ता रेणुवत् 5 पार्श्वस्पृष्टास्ततो बद्धाः गाढतरं श्लिष्टाः तनौ तोयवत्, पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् बद्धपार्श्वस्पृष्टाः, आह च- पुढे रेणुं व तणुम्मि बद्धमप्पीकयं पएसेहिं [विशेषाव० ३३७] ति, एते च घ्राणेन्द्रियादिग्रहणगोचराः । तथा नोबद्धाः पार्श्वस्पृष्टा इत्येकपदप्रतिषेधे श्रोत्रेन्द्रियग्रहणगोचराः, यत उक्तम्पुढे सुणेइ सदं रूवं पुण पासई अपुढे तु ।
10 गंधं रसं च फासं च बद्धपुढे वियागरे ॥ [विशेषाव० ३३६] त्ति ।। उभयपदनिषेधे श्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति, इयमिन्द्रियापेक्षया बद्धपार्श्वस्पृष्टता पुद्गलानां व्याख्याता, एवं जीवप्रदेशापेक्षया परस्परापेक्षया च व्याख्येयेति ५, परियाइय त्ति विवक्षितं पर्यायमतीताः पर्यायातीताः पर्यात्ता वा सामस्त्यगृहीताः कर्मपुद्गलवत्, प्रतिषेधः सुज्ञानः ६, आत्ता: गृहीताः स्वीकृता जीवेन परिग्रहमात्रतया शरीरादितया 15 वा ७, इष्यन्ते स्म अर्थक्रियार्थिभिरितीष्टाः ८, कान्ता: कमनीया विशिष्टवर्णादियुक्ताः ९, प्रियाः प्रीतिकराः इन्द्रियाह्लादकाः १०, मनसा ज्ञायन्ते शोभना एत इत्येवं विकल्पमुत्पादयन्तः शोभनत्वप्रकर्षाद्ये ते मनोज्ञाः ११, मनसो मता वल्लभाः सर्वस्याप्युपभोक्तुः सर्वदा च शोभनत्वप्रकर्षादेव निरुक्तविधिना मणामा १२ इति, व्याख्यानान्तरं त्वेवम्- इष्टाः वल्लभाः सदैव जीवानां सामान्येन, कान्ताः कमनीयाः 20 सदैव तद्भावेन, प्रियाः अद्वेष्याः सर्वेषामेव, मनोज्ञा: मनोरमाः कथयाऽपि, मनआमा मनः प्रियाश्चिन्तयाऽपीति, विपक्षः सुज्ञानः सर्वत्रेति ।
पुद्गलाधिकारादेव तद्धर्मान् शब्दादीन् अनन्तरोक्तसविपर्ययात्तादिविशेषणषट्कविशिष्टान् दुविहा सद्देत्यादिसूत्रत्रिंशताऽऽह, कण्ठ्या चेयमिति । १. “राजदन्तादिषु परम् । २।२।३१। एषु पूर्वप्रयोगार्ह परं स्यात् । दन्तानां राजा राजदन्तः।" - पा० सिद्धान्तकौमुदी।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org