________________
१०२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] प्राग् वैमानिकाश्चरमाचरमत्वेनोक्ताः, ते चावधिनाऽधोलोकादीन् विदन्त्यतस्तद्वेदने जीवस्य प्रकारद्वयमाह- दोहीत्यादि सूत्रचतुष्टयम् । द्वाभ्यां स्थानाभ्यां प्रकाराभ्यामात्मगताभ्यामात्मा जीवोऽधोलोकं जानात्यवधिज्ञानेन पश्यत्यवधिदर्शनेन
समवहतेन वैक्रियसमुद्घातगतेनाऽऽत्मना स्वभावेन, समुद्घातान्तरगतेन वा, 5 असमवहतेन त्वन्यथेति, एतदेव व्याख्याति – आहोहीत्यादि यत्प्रकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात्, परमावधेर्वाऽधोवय॑वधिर्यस्य सोऽधोवधिरात्मा नियतक्षेत्रविषयावधिज्ञानी, स कदाचित् समवहतेन कदाचिदन्यथेति समवहतासमवहतेने ति । एवमित्यादि, एवमिति यथाऽधोलोक:
समवहतासमवहतप्रकाराभ्यामवधेर्विषयतयोक्त एवं तिर्यग्लोकादयोऽपीति, सुगमानि च 10 तिर्यग्लोकोर्ध्वलोक-केवलकल्पलोकसूत्राणि, नवरं केवलः परिपूर्णः स चासौ
स्वकार्यसामर्थ्यात् कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्पः समयभाषया परिपूर्णस्तं लोकं चतुर्दशरज्ज्वात्मकमिति ।
वैक्रियसमुद्घातानन्तरं वैक्रियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याधोलोकादिज्ञाने प्रकारद्वयमाह- दोहीत्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं विउव्विएणं ति 15 कृतवैक्रियशरीरेणेति ।
[सू० ७१] दोहिं ठाणेहिं आया सद्दाइं सुणेति, तंजहा-देसेण वि आया सद्दाइं सुणेति, सव्वेण वि आया सद्दाइं सुणेति १, एवं रूवाइं पासति २, गंधाई अग्घाति ३, रसाइं आसादेति ४, फासाई पडिसंवेदेति ५।
दोहिं ठाणेहिं आया ओभासति, तंजहा-देसेण वि आया ओभासति, 20 सव्वेण वि आया ओभासति १॥ एवं पभासति २, विकुव्वति ३, परियारेति
४, भासं भासति ५, आहारेति ६, परिणामेति ७, वेदेति ८, निजरेति ९। __दोहिं ठाणेहिं देवे सद्दाइं सुणेति, तंजहा-देसेण वि देवे सद्दाइं सुणेति, सव्वेण वि देवे सद्दाइं सुणेति, जाव निजरेति १४।।
[टी०] ज्ञानाधिकार एवेदमपरमाह- दोहीत्यादि पञ्चसूत्री, स्थानाभ्यां प्रकाराभ्यां 25 देसेण वि त्ति देशेन च शृणोत्येकेन श्रोत्रेणैकश्रोत्रोपघाते सति, सर्वेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org