________________
१००
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे [टी०] जीवाधिकारादेव भव्यादिविशेषणैः षोडशभिर्दण्डकप्ररूपणामाह । तत्र भव्यदण्डकः कण्ठ्यः १। अनन्तरदण्डके अणंतर त्ति एकस्मादनन्तरमुत्पन्ना ये तेऽनन्तरोपपन्नकाः, तदन्यथा तु परम्परोपपन्नकाः, विवक्षितदेशापेक्षया वा
येऽनन्तरतयोत्पन्नास्ते आद्याः, परम्परया त्वितरे इति २ । गतिदण्डके गतिसमापन्नका 5 नरकं गच्छन्तः, इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना नारकत्वं प्राप्ता इतरे तु द्रव्यनारकाः, अथवा चल-स्थिरत्वापेक्षया नेया इति ३। प्रथमसमयदण्डके पढमेत्यादि, प्रथमः समय उपपन्नानां येषां ते प्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोपपन्नका इति ४ । आहारकदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेकं द्वौ वा
समयौ ये नाडीमध्ये मृत्वा तत्रैवोत्पद्यन्ते, ये त्वन्यथा ते त्रीनिति ५ । उच्छ्वासदण्डके 10 उच्छ्वसन्तीत्युच्छ्वासकास्तत्पर्याप्तिपर्याप्तकाः, तदन्ये तु नोच्छ्वासकाः ६ । इन्द्रियदण्डके
सेन्द्रिया: इन्द्रियपर्याप्त्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रिया: ७ । पर्याप्तदण्डके पर्याप्ता: पर्याप्तनामकर्मोदयादितरे त्वितरोदयादिति ८ । संज्ञिदण्डके संज्ञिनो मनःपर्याप्त्या पर्याप्तकाः, तया अपर्याप्तकास्तु ये ते असंज्ञिन इति । एवं पंचिंदियेत्यादि, अस्यायमर्थः
यथा नारकाः संज्यसंज्ञिभेदेनोक्ताः एवं विगलेंदियवज्ज त्ति, विकलानि अपरिपूर्णानि 15 सङ्ख्ययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तान् पृथिव्यादीन् द्वित्रिचतुरिन्द्रियांश्च वर्ज्जयित्वा येऽन्ये चतुर्विंशतिदण्डके पञ्चेन्द्रिया असुरादयो भवन्ति ते सर्वेऽपि संज्यसंज्ञितया वाच्याः । दण्डकावसानमाह- जाव वेमाणिय त्ति वैमानिकपर्यवसाना अप्येवं वाच्या इति । क्वचिद् जाव वाणमंतर त्ति पाठस्तत्रायमर्थः- येऽसंज्ञिभ्यो नारकादितयोत्पद्यन्ते तेऽसंज्ञिन एवोच्यन्ते, असंज्ञिनश्च नारकादिषु व्यन्तरावसानेषूत्पद्यन्ते 20 न ज्योतिष्क-वैमानिकेष्विति तेषामसंज्ञित्वाभावादिहाग्रहणमिति ९ । भाषादण्डके भाषका भाषापर्याप्त्यु दये, अभाषकास्तदपर्याप्तकावस्थायामिति, एके न्द्रियाणां भाषापर्याप्तिर्नास्तीत्यत आह- एवमित्यादि १० । सम्यग्दृष्टिदण्डके सम्यक्त्वमेकेन्द्रियाणां नास्ति, द्वीन्द्रियादीनां तु सासादनं स्यादपीत्युक्तम्- एगिदियवज्जा सव्वे त्ति ११ ।
संसारदण्डके परीत्तसंसारिकाः सक्षिप्तभवा इतरे त्वितरे १२ । स्थितिदण्डके काल: 25 कृष्णोऽपि स्यात् समय आचारोऽपि स्यादतः कालश्चासौ समयश्चेति कालसमय:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org