________________
९८
___ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे वधिभूताभ्यामागति: आगमनं येषां ते तथा, उदितनारकायु रक एव व्यपदिश्यते, अत उच्यते णेरइए णेरइएसु त्ति, नारकेषु मध्ये इत्यर्थः, इह चोद्देशक्रमव्यत्ययात् प्रथमवाक्येनाऽऽगतिरुक्ता, से चेव णं से त्ति यो मानुषत्वादितो नरकं गतः स एवासौ
नारको नान्यः, अनेनैकान्तानित्यत्वं निरस्तमिति, विप्पजहमाणे त्ति विप्रजहन् 5 परित्यजन्, इह च भूतभावतया नारकव्यपदेशः, अनेन वाक्येन गतिरुक्ता, इत्थं च व्याख्यातं 'तेजस्कायिका व्यागतयस्तिर्यङ्-मनुष्यापेक्षया एकगतयस्तिर्यगपेक्षये'ति वाक्यमुपजीव्येति, एवं असुरकुमारा वि त्ति, नारकवद्वक्तव्या इत्यर्थः, नवरं ति केवलमयं विशेष:-तिर्यक्षु न पञ्चेन्द्रियेष्वेवोत्पद्यन्ते पृथिव्यादिष्वपि तदुत्पत्तेरित्यतः
सामान्यत आह- से चेव णं से इत्यादि जाव तिरिक्खजोणियत्ताए वा गच्छेज्ज 10 त्ति, एवं सव्वदेव त्ति असुरवत् द्वादशापि दण्ड कदेवपदानि वाच्यानि,
तेषामप्ये केन्द्रियेषूत्पत्ते रिति । णोपुढविकाइएहिंतो त्ति अनेन पृथिवीकायिकनिषेधद्वारेणाप्कायिकादयः सर्वे गृहीता द्विस्थानकानुरोधादिति, तेभ्यो वा नारकवर्जेभ्यः समुत्पद्येत । णोपुढविकाइयत्ताए त्ति देव-नारकवर्जाप्कायादितया
गच्छेदिति, एवं जाव मणुस्स त्ति, यथा पृथिवीकायिका दुगइया इत्यादिभिरभिलापैरुक्ता 15 एवमेभिरेवाप्कायादयो मनुष्यावसानाः पृथिवीकायिकशब्दस्थानेऽप्कायादिव्यपदेशं कुर्वद्भिरभिधातव्या इति । व्यन्तरादयस्तु पूर्वमतिदिष्टा एवेति ।
[सू० ६९] दुविहा णेरइया पन्नत्ता, तंजहा-भवसिद्धिया चेव अभवसिद्धिया चेव, जाव वेमाणिया १॥
दुविहा नेरइया पन्नत्ता, तंजहा-अणंतरोववण्णगा चेव परंपरोववण्णगा 20 चेव, जाव वेमाणिया २।
दुविहा णेरइया पन्नत्ता, तंजहा-गतिसमावन्नगा चेव अगतिसमावनगा चेव, जाव वेमाणिया ३
दुविधा नेरइया पन्नत्ता, तंजहा-पढमसमओववन्नगा चेव अपढमसमओववन्नगा चेव, जाव वेमाणिया ४।
१. इदं वाक्यं क्व वर्तते इति गवेषणीयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org