________________
९७
[सू० ६८]
द्वितीयमध्ययनं द्विस्थानकम् । द्वितीय उद्देशकः । एतच्च विकल्पद्वयं सूत्रे नाश्रितम्, द्वित्वाधिकारादिति ।
सूत्रोक्तमेव विकल्पद्वयं सर्वजीवेषु चतुर्विंशतिदण्डकेन प्ररूपयन्नाह- नेरइयाणमित्यादि प्रायः सुगमम्, नवरं तत्थगया वि अन्नत्थगया वि एवमभिलापेन दण्डको नेयो यावत् पञ्चेन्द्रियतिर्यञ्चोऽत एवाह- जावेत्यादि । ___ मनुष्येषु पुनरभिलापविशेषो दृश्यः, यथा- इहगता वि एगइया इति, सूत्रकारो 5 हि मनुष्योऽतस्तत्रेत्येवंभूतं परोक्षानासन्ननिर्देशं विमुच्य मनुष्यसूत्रे इहेत्येवं निर्दिशति स्म, मनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन ‘इदं'शब्दस्य विषयत्वादिति, अत एवाह- मणुस्सवज्जा सेसा एक्कगम त्ति, शेषाः व्यन्तर-ज्योतिष्क-वैमानिका एकगमाः तुल्याभिलापाः । ननु प्रथमसूत्र एव ज्योतिष्क-वैमानिकदेवानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तद्भणनेनेति ?, उच्यते, तत्रानुष्ठानफलदर्शनप्रसङ्गेन 10 भेदतश्चोक्तत्वाद्, इह तु दण्डकक्रमेण सामान्यतश्चोक्तत्वादिति न दोषः, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति । - [सू० ६८] नेरइया दुगतिगा दुयागतिया पन्नत्ता, तंजहा-नेरइए नेरइएसु उववजमाणे मणुस्सेहिंतो वा पंचेंदियतिरिक्खजोणिएहिंतो वा उववज्जेज्जा, से चेव णं से नेरइए णेरइयत्तं विप्पजहमाणे मणुस्सत्ताए वा 15 पंचेंदियतिरिक्खजोणियत्ताए वा गच्छेज्जा । एवं असुरकुमारा वि, णवरं से
चेव णं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मणुस्सत्ताए वा तिरिक्खजोणियत्ताए वा गच्छेजा, एवं सव्वदेवा ।।
पुढविकाइया दुगइया दुयागइया पन्नत्ता, तंजहा-पुढविकाइए पुढविकाइएसु उववजमाणे पुढविकाइएहिंतो वा नोपुढविकाइएहिंतो वा उववज्जेजा, से 20
चेव णं पुढविकाइए पुढविकाइयत्तं विप्पयहमाणे पुढविकाइयत्ताए वा नोपुढविकाइयत्ताए वा गच्छेज्जा, एवं जाव मणुस्सा। ___ [टी०] तत्रगता वेदनां वेदयन्तीत्युक्तमतो नारकादीनां गतिं तद्विपर्यस्तामागतिं च निरूपयन्नाह- नेरइयेत्यादि दण्डकः कण्ठ्यः , नवरं नैरयिका नारका द्वयोः मनुष्यगतितिर्यग्गतिलक्षणयोर्गत्योरधिकरणभूतयोर्गतिर्येषां ते तथा, द्वाभ्यामेताभ्यामेवा- 25 १. अत्र विद्यमानो भा० पाठः प्रथमे परिशिष्टे टिप्पनेषु द्रष्टव्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org