SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ९६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ मणुस्साणं सता समितं जे पावे कम्मे कजति इहगया वि एगइया वेयणं वेदेति, अन्नत्थगता वि एगतिया वेयणं वेदेति । मणुस्सवजा सेसा एक्कगमा। [टी०] इहानन्तरोद्देशके जीवाजीवधर्मा द्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते, इत्यनेन सम्बन्धेन आयातस्यास्योद्देकशस्ये5 दमादिसूत्रम्- जे देवेत्यादि । अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः-- प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम्, तस्माच्च देवत्वं केषाञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्ध-वेदने प्रतिपादयन्नाह- जे देवेत्यादि । ये देवाः सुराः वक्ष्यमाणविशेषणेभ्यो वैमानिका अनशनादेरुत्पन्नाः, किं भूताः? उट्ट त्ति ऊर्ध्वलोकस्तत्रोपपन्नकाः उत्पन्ना ऊोपपन्नकाः, ते च द्विधा-कल्पोपपन्नका: 10 सौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नका: ग्रैवेयका-ऽनुत्तरलक्षणविमानोत्पन्नाः, कल्पातीता इत्यर्थः, तथा परे चारोववन्नग त्ति चरन्ति भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो ज्योतिश्चक्रक्षेत्रं समस्तमेव, व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात, तत्रोपपन्नकाश्चारोपपन्नका: ज्योतिष्काः, न च पादपोपगमनादे कॊतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहि- चारे 15 ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिका: समयक्षेत्रबहिर्वत्तिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिकाः, समयक्षेत्रवर्त्तिन इत्यर्थः, गतिरतयश्चासततगतयोऽपि भवन्तीत्यत आह- गतिं गमनं समिति सततमापन्नका: प्राप्ता गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः, तेषां देवानां द्विविधानां पुनर्द्विविधानां सदा नित्यं समितं सन्ततं यत् पापं कर्म ज्ञानावरणादि, सततबन्धकत्वात् जीवानाम्, 20 क्रियते बध्यते, कर्मकर्तृप्रयोगोऽयम्, भवति सम्पद्यत इत्यर्थः, ते देवास्तस्य कर्मणः आबाधाकालातिक्रमे सति तत्थगया वि त्ति अपिरेवकारार्थस्तस्य चैवं प्रयोग:- तत्रैव देवभव एव कल्पातीतानां क्षेत्रान्तरादिगमनासम्भवात्, इह तत्रान्यत्रशब्दाभ्यां भव एव विवक्षितः, न क्षेत्र-शयना-ऽऽसनादीति, गताः वर्तमाना एके केचन देवा वेदनाम् उदयं विपाकं वेदयन्ति अनुभवन्ति, अन्नत्थगया वि त्ति देवभवादन्यत्रैव भवान्तरे 25 गता उत्पन्ना वेदनामनुभवन्ति, केचित्तूभयत्रापि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy