SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [सू० ६७] द्वितीयमध्ययनं द्विस्थानकम् । द्वितीय उद्देशकः। अकरणतया पुनर्न करिष्यामीत्येवमभ्युत्थातुम् अभ्युपगन्तुमिति १५, यथार्हम् अतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तम्, उक्तं च पावं छिंदइ जम्हा पायच्छित्तं तु भन्नए तेण । पाएण वा वि चित्तं विसोहए तेण पच्छित्तं ॥ [व्यवहारभा० ३५] ति ।। तपःकर्म निर्विकृतिकादिकं प्रतिपत्तुम् अभ्युपगन्तुमिति १६ । सप्तदशं सूत्रं साक्षादेवाह- दो दिसेत्यादि, पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी च सा चासौ संलिख्यतेऽनया शरीर-कषायादीति संलेखना तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना, तस्याः झूसण त्ति जोषणा सेवा, तया, तल्लक्षणधर्मेणेत्यर्थः, झूसियाणं ति सेवितानाम्, तद्युक्तानामित्यर्थः, तया 10 वा झूषितानां क्षपितानां क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा, तेषाम्, पादपवदुपगतानाम् अचेष्टतया स्थितानाम्, अनशनविशेष प्रतिपन्नानामित्यर्थः, कालं मरणकालमनवकाङ्क्षतां तत्रानुत्सुकानां विहाँ स्थातुमिति १७ । एवमेतानि दिक्सूत्राण्यादितोऽष्टादश । सर्वत्र यन्न व्याख्यातं तत् सुगमत्वादिति। ॥ द्विस्थानकस्य प्रथमोद्देशको विवरणतः समाप्तः ।। - [अथ द्वितीय उद्देशकः] [सू० ६७] जे देवा उड्डोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारंट्टिइया गतिरतिया गतिसमावण्णगा तेसि णं देवाणं सता समितं जे पावकम्मे कजति तत्थगता वि एगतिया वेयणं वेदेति, अन्नत्थगता वि एगतिया 20 वेयणं वेदेति । _णेरइयाणं सता समियं जे पावे कम्मे कज्जइ तत्थगया वि एगइया वेयणं वेदेति अन्नत्थगया वि एगतिता वेयणं वेदेति, जाव पंचेंदियतिरिक्खजोणियाणं। १. द्वितीया जे२, ३ ।। २. एवं जाव भां० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy