SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे __ दो दिसातो अभिगिज्झ कप्पति निग्गंथाण वा निग्गंथीण वा अपच्छिममारणंतियसंलेहणाझूसणाझूसियाणं भत्तपाणपडियाइक्खिताणं पाओवगताणं कालं अणवकंखमाणाणं विहरित्तए, तंजहा-पाईणं चेव उदीणं चेव १८। ॥ बिट्ठाणस्स पढमो उद्देसओ समत्तो ॥ 5 [टी०] पूर्वसूत्रे भव्याः शरीरिण उक्ताः, इतस्तद्विशेषाणामेव यद्यथा कर्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह-दो दिसाओ इत्यादि, द्वे दिशौ काष्ठे अभिगृह्य अङ्गीकृत्य, तदभिमुखीभूयेत्यर्थः, कल्पते युज्यते, निर्गता ग्रन्थाद् धनादेरिति निर्ग्रन्थाः साधवस्तेषाम्, निर्ग्रन्थ्यः साध्व्यस्तासाम्, प्रव्राजयितुं रजोहरणादिदानेन, प्राचीनं प्राचीम्, पूर्वामित्यर्थः, उदीचीनम् उदीचीम्, उत्तरामित्यर्थः, उक्तं च पुव्वामुहो उ उत्तरमुहो व्व देज्जाऽहवा पडिच्छेज्जा। जाए जिणादओ वा हवेज्ज जिणचेइयाई वा ॥ [पञ्चव० १३१] इति । एवमिति यथा प्रव्राजनसूत्रं दिग्द्वयाभिलापेनाधीतमेवं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति, तत्र मुण्डयितुं शिरोलोचतः १, शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थौ ग्राहयितुम्, आसेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति २, उत्थापयितुं 15 महाव्रतेषु व्यवस्थापयितुम् ३, संभोजयितुं भोजनमण्डल्यां निवेशयितुम् ४, संवासयितुं संस्तारकमण्डल्यां निवेशयितुम् ५, सुष्ठ आ मर्यादया अधीयत इति स्वाध्यायः अङ्गादिः, तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टु मिति ६, समुद्देष्टुं योगसामाचार्यैव स्थिरपरिचितं कुर्विदमिति वक्तुमिति ७, अनुज्ञातुं तथैव सम्यगेतद् धारय अन्येषां च प्रवेदयेत्येवमभिधातुमिति ८, आलोचयितुं गुरवेऽपराघान्निवेदयितुमिति 20 ९, प्रतिक्रमितुं प्रतिक्रमणं कर्तुमिति १०, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुम्, आह च- सचरित्तपच्छयावो निंद [आव०नि० १०६२] त्ति ११, गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुम्, आह च- गरहा वि तहाजातीयमेव नवरं परप्पयासणय [आव०नि० १०६३] त्ति १२, विउट्टित्तए त्ति व्यतिवर्तयितुं वित्रोटयितुं विकुट्टयितुं वा, अतिचारानुबन्धं विच्छेदयितुमित्यर्थः १३, विशोधयितुमतिचारपङ्कापेक्षयाऽऽत्मानं विमलीकर्तुमिति १४, १. वा दिसाए जिण इति पञ्चवस्तुके पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy