SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ [सू० ६६] द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । ___ पुढवीत्यादि, पृथिव्यादीनां तु बाह्यमौदारिकमौदारिकशरीरनामकर्मोदयादुदारपुद्गलनिवृत्तमौदारिकम्, केवलमेकेन्द्रियाणामस्थ्यादिविरहितम्, वायूनां वैक्रियं यत्तन्न विवक्षितं प्रायिकत्वात् तस्येति । बेइंदियाणमित्यादि, अस्थि-मांस-शोणितैर्बद्धं नद्धं यत्तत्तथा, द्वीन्द्रियादीनामौदारिकत्वेऽपि शरीरस्यायं विशेषः। 5 पंचेदियेत्यादि, पञ्चेन्द्रियतिर्यङ्-मनुष्याणां पुनरयं विशेषो यदस्थि-मांस-शोणितस्नायु-शिराबद्धमिति, अस्थ्यादयस्तु प्रतीता इति ।। __ प्रकारान्तरेण चतुर्विंशतिदण्डकेन शरीरप्ररूपणामेवाह- विग्गहेत्यादि, विग्रहगतिः वक्रगतिर्यदा विश्रेणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्तां समापन्ना विग्रहगतिसमापन्नास्तेषां द्वे शरीरे, इह तैजस-कार्मणयोर्भेदेन विवक्षेति, एवं दण्डकः। 10 शरीराधिकारात् शरीरोत्पत्तिं दण्डकेन निरूपयन्नाह- नेरइयाणमित्यादि, कण्ठ्यम्, किन्तु राग-द्वेषजनितकर्मणा शरीरोत्पत्तिः सा राग-द्वेषाभ्यामेवेति व्यपदिश्यते, कार्ये कारणोपचारादिति जाव वेमाणियाणं ति दण्डकः सूचितः । शरीराधिकाराच्छरीरनिर्वर्तनसूत्रम्, तदप्येवम्, नवरमुत्पत्ति: आरम्भमात्रम्, निर्वर्तना तु निष्ठानयनमिति । __ शरीराधिकाराच्छरीरवतां राशिद्वयेन प्ररूपणामाह-दो कायेत्यादि। त्रसनामकर्मोदयात् त्रस्यन्तीति त्रसाः, तेषां कायो राशिस्त्रसकाय:, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावराः, तेषां कायः स्थावरकाय इति । त्रस-स्थावरकाययोरेव द्वैविध्यप्ररूपणार्थं तसकायेत्यादि सूत्रद्वयं सुगमं चेति । [सू० ६६] दो दिसाओ अभिगिज्झ कप्पइ निग्गंथाण वा णिग्गंथीण वा 20 पव्वावित्तए- पाईणं चेव उदीणं चेव १॥ एवं मुंडावित्तए २, सिक्खावित्तए ३, उवठ्ठावित्तए ४, संभोइत्तए ५, संव(वा?)सित्तए ६, सज्झायमुद्दिसित्तए ७, सज्झायं समुद्दिसित्तए ८, सज्झायमणुजाणित्तए ९, आलोइत्तए १०, पडिक्कमित्तए ११, निंदित्तए १२, गरहित्तए १३, विउट्टित्तए १४, विसोहित्तए १५, अकरणयाए अब्भुट्टित्तए १६, अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जित्तए १७ । 25 १. मौदारिकशरीर खं० जे२ ॥ २. संभुंजित्तए क० विना ।। ३. संविसित्तए क० । दृश्यतां सू०२०४ ।। ४. "त्तते जे२ । एवमग्रेऽपि प्रायः ।। 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy