SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे कम्मए चेव । निरंतरं जाव वेमाणियाणं । नेरइयाणं दोहिं ठाणेहिं सरीरुप्पत्ती सिया, तंजहा-रागेण चेव दोसेण चेव। जाव वेमाणियाणं । नेरइयाणं दुट्ठाणनिव्वत्तिए सरीरए पन्नत्ते, तंजहा-रागनिव्वत्तिए चेव 5 दोसनिव्वत्तिए चेव । जाव वेमाणियाणं । दो काया पन्नत्ता, तंजहा-तसकाए चेव थावरकाए चेव । तसकाए दुविहे पन्नत्ते, तंजहा-भवसिद्धिए चेव अभवसिद्धिए चेव १। एवं थावरकाए वि । [टी०] अनन्तरं लोकालोकभेदेनाकाशद्वैविध्यमुक्तम्, लोकश्च शरीरि-शरीराणां 10 सर्वत आश्रयस्वरूप इति नारकादिशरीरदण्डकेन शरीरप्ररूपणामाह- णेरइयाणमित्यादि प्रायः कण्ठ्यम्, नवरं शीर्यते अनुक्षणं चयापचयाभ्यां विनश्यतीति शरीरम्, तदेव सदनादिधर्मतयाऽनुकम्पितत्वात् शरीरकम्, ते च द्वे प्रज्ञप्ते जिनैः, अभ्यन्त: मध्ये भवमाभ्यन्तरम्, आभ्यन्तरत्वं च तस्य जीवप्रदेशैः सह क्षीर-नीरन्यायेन लोलीभवनात् भवान्तरगतावपि च जीवस्यानुगतिप्रधानत्वादपवरकाद्यन्तःप्रविष्टपुरुषवदनतिर्शयिनाम15 प्रत्यक्षत्वाच्चेति, तथा बहिर्भवं बाह्यम्, बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननुयायित्वान्निरतिशयानामपि प्रायः प्रत्यक्षत्वाच्चेति। तत्राभ्यन्तरं कम्मए त्ति कार्मणशरीरनामकर्मोदयनिर्वर्त्यमशेषकर्मणां प्ररोहभूमिराधारभूतम्, तथा संसार्यात्मनां गत्यन्तरसङ्क्रमणे साधकतमं तत् कार्मणवर्गणास्वरूपम्, कर्मैव कर्मकमिति, कर्मकग्रहणे च तैजसमपि गृहीतं द्रष्टव्यम्, तयोरव्यभिचारित्वेनैकत्वस्य 20 विवक्षितत्वादिति । एवं देवाणं भाणियव्वं ति, अयमर्थः-यथा नैरयिकाणां शरीरद्वयं भणितमेवं देवानाम् असुरादीनां वैमानिकान्तानां भणितव्यम्, कार्मण-वैक्रिययोरेव तेषां भावात्, चतुर्विंशतिदण्डकस्य च विवक्षितत्वादिति । १. अत्र भा० मध्ये एकस्मिन् खण्डिते पत्रे ईदृशः पाठ उपलभ्यते- ..... जीवकाए चेव अरूविअजीवकाए चेव। कप्पड़ निग्गंथाण वा दो दिसाओ अभिगिज्झ..... उवट्ठावित्तए भुंजित्तए संवसित्तए कप्पइ निग्गंथाण वा निग्गंथीण वा दो दिसाओ अभिगि... पडिक्कमित्तए निंदित्तए गरहित्तए विसोहित्तए अकरणयाए अब्भुट्टित्तए अ..... निग्गंथीण वा दो दिसाओ अभिगिज्झ अपच्छिममारणंतियसंलेहणाझूसणाझूसियाणं भत्त.... ... णाणं विहरित्तए तंजहा पाईणं चेव उदीणं चेव ॥छ।। बीयट्ठाणे पढमो उद्देसओ सम.... भा० । .... ईदृशैः बिन्दुभिः संकेतितः पाठोऽत्र त्रुटित इति ध्येयम् ।। २. °शायि पासं० ॥ ३. शायिना पासं० जे२ । शयिना पामू० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy