________________
10
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे पुनरसङ्ख्यातसमया अन्तर्मुहूर्तेन निर्वय॑न्त इति, अपर्याप्तकास्तु उच्छ्वासपर्याप्त्या अपर्याप्ता एव म्रियन्ते, न तु शरीरेन्द्रियपर्याप्तिभ्याम्, यस्मादागामिभवायुष्कं बद्ध्वा म्रियन्ते, तच्च शरीरेन्द्रियादिपर्याप्त्या पर्याप्तैरेव बध्यत इति । एवमिति पूर्ववदेवेति ।
दुविहा पुढवीत्यादिषट्सूत्री, परिणताः स्वकाय-परकायशस्त्रादिना परिणामान्तर5 मापादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षत्रादिना मिश्रेण द्रव्येण कालतः पौरुष्यादिना कालेन भावतो वर्ण-गन्ध-रस-स्पर्शान्यथात्वेन परिणताः, क्षेत्रतस्तु
जोयणसयं तु गंताऽणाहारेणं तु भंडसंकंती । वायागणिधूमेण य विद्धत्थं होइ लोणाई ॥ हरियाल मणोसिल पिप्पली य खज्जूर मुद्दिया अभया । आइन्नमणाइन्ना ते वि हु एमेव णायव्वा ॥ आरुहणे ओरुहणे णिसियण गोणाइणं च गातुम्हा। भूमाहारच्छेदे उवक्कमेणेव परिणामो ॥ [ निशीथभा० ४८३३-३४३५]
अणाहारेणं ति स्वदेशजाहाराभावेनेति, भंडसंकंति त्ति भाजनाद् भाजनान्तरसङ्क्रान्त्या, खज्जूरादयोऽनाचरिताः अभयादयस्तु आचरिता इति । परिणामान्तरेऽपि
पृथिवीकायिका एव ते, केवलमचेतना इति, कथमन्यथाऽचेतनपृथिवीकायपिण्ड15 प्रयोजनाभिधानमिदं स्यात्, यथा
घट्टग-डगलग-लेवो एमादि पयोयणं बहुहा [ओघनि० ३४२, पिण्डनि० १५] इति ।
एवमित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि । द्रवन्ति गच्छन्ति विचित्रपर्यायानिति द्रव्याणि जीव-पुद्गलरूपाणि, तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि, विवक्षितपरिणामवन्त्येव अपरिणतानीति द्रव्यसूत्रं षष्ठम् १६ । 20 दुविहेत्यादि षट्सूत्री, गतिर्गमनं तां समापन्नाः प्राप्तास्तद्वन्तो गतिसमापन्नाः, ये
हि पृथिवीकायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं व्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः । द्रव्यसूत्रे गतिर्गमनमात्रमेव, शेषं तथैवेति २२ ।
दुविहा पुढवीत्यादि षट्सूत्री, अनन्तरं सम्प्रत्येव समये क्वचिदाकाशदेशे अवगाढाः 25 आश्रितास्त एवाऽनन्तरावगाढकाः, येषां तु व्यादयः समया अवगाढानां ते
परम्परावगाढकाः, अथवा विवक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्यानन्तरम् अव्यवधानेनावगाढा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org