SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ [सू० ६३] द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । समासान्तविधेः, त एव स्वार्थिककप्रत्ययात् पृथिवीकायिकाः, पृथिव्येव वा काय: शरीरम्, सोऽस्ति येषां ते पृथिवीकायिकाः ते सूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयवर्त्तिनो बादरा ये पृथिवी-नगादिष्वेवेति, नैषामापेक्षिकं सूक्ष्मबादरत्वमिति । एवमिति पृथिवीसूत्रवदप्ते जोवायूनां सूत्राणि वाच्यानि यावद्वनस्पतिसूत्रम्, अत एवाह-जावेत्यादि । दुविहे त्यादि पञ्चसूत्री, तत्र 5 पर्याप्तनामकर्मोदयवर्तिनः पर्याप्ताः, ये हि चतस्रः स्वपर्याप्तीः पूरयन्तीति, अपर्याप्तनामकर्मोदयादपर्याप्तका ये स्वपर्याप्तीर्न पूरयन्तीति । इह च पर्याप्तिर्नाम शक्तिः सामर्थ्यविशेष इति यावत्, सा च पुद्गलद्रव्योपचयादुत्पद्यते, षड्भेदा चेयम्, तद्यथा आहार १ सरीरिंदियपज्जत्ती २-३ आणुपाणु ४ भास ५ मणे ६। चत्तारि पंच छप्पि य एगिदियविगलसन्नीणं ॥ [जीवसमास० २५] ति । 10 तत्र एकेन्द्रियाणां चतस्रः, विकलेन्द्रियाणां पञ्च, संज्ञिनां षट्, तत्र आहारपर्याप्तिर्नाम खलरसपरिणमनशक्तिः १, शरीरपर्याप्तिः सप्तधातुतया रसस्य परिणमनशक्तिः २, इन्द्रियपर्याप्तिः पञ्चानामिन्द्रियाणां योग्यान् पुद्गलान् गृहीत्वाऽनाभोगनिर्वर्त्तितेन वीर्येण तद्भावनयनशक्तिः ३, आनप्राणपर्याप्तिः उच्छ्वासनिःश्वासयोग्यान् पुद्गलान् गृहीत्वा तथा परिणमय्याऽऽनप्राणतया निसर्जनशक्तिः, ४ भाषापर्याप्तिर्वचोयोग्यान् पुद्गलान् गृहीत्वा 15 भाषात्वेन परिणमय्य वाग्योगतया निसर्जनशक्तिः ५, मनःपर्याप्तिर्मनोयोग्यान् पुद्गलान् गृहीत्वा मनस्तया परिणमय्य मनोयोगतया निसर्जनशक्तिरिति ६, एताः पर्याप्तयः पर्याप्तनामको दयेन निर्वय॑न्ते, तद् येषामस्ति ते पर्याप्तकाः, अपर्याप्तनामकर्मो दयेनानिर्वृत्ताः येषामेताः सन्ति तेऽपर्याप्तका इति । एताश्च युगपदारभ्यन्तेऽन्तर्मुहूर्तेन च निर्वर्त्यन्ते, तत्र आहारपर्याप्तेर्निर्वृत्तिकालः समय एव, 20 कथम् ?, उच्यते, यस्मात् प्रज्ञापनायामुक्तम्- आहारपज्जत्तीए अपज्जत्तए णं भंते ! जीवे किं आहारए अणाहारए ?, गोयमा ! नो आहारए अणाहारए [प्रज्ञा० १९०५] त्ति, स च विग्रहे आहारपर्याप्त्या अपर्याप्तको लभ्यते, यदि पुनरुपपातक्षेत्रप्राप्तोऽप्याहारपर्याप्त्याऽपर्याप्तको भवेत्तदैवं व्याकरणं भवेद् गोयमा ! सिय आहारए सिय अणाहरए त्ति, यथा शरीरादिपर्याप्तिषु सिय आहारए सिय अणाहारए [प्रज्ञा० १९०५] त्ति, शेषाः 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy