________________
८४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्भावात्, इह यस्य ज्ञेयवस्तुग्रहणस्याऽन्ते तत एव ज्ञेयवस्तूपादानात् उपलब्धिर्भवति तत् ज्ञानं दृष्टम्, यथाऽर्थावग्रहपर्यन्ते तत एवार्थावग्रहग्राह्यवस्तुग्रहणादीहासद्भावात् अर्थावग्रहज्ञानमिति, आह च
अन्नाणं सो बहिराइणं व तक्कालमणुवलंभाओ। 5 आचार्य:- न तदन्ते तत्तो च्चिय उवलंभाओ तयं नाणं ॥ [विशेषाव० १९५] ति ।
किञ्च, व्यञ्जनावग्रहकालेऽपि ज्ञानमस्त्येव, सूक्ष्माव्यक्तत्वात्तु नोपलभ्यते, सुप्ताव्यक्तविज्ञानवदिति। ईहादयोऽपि श्रुतनिश्रिता एव, न तूक्ताः, द्विस्थानकानुरोधादिति। असुयनिस्सिए वि एमेव त्ति अर्थावग्रह-व्यञ्जनावग्रहभेदेनाऽश्रुतनिश्रितमपि द्विधैवेति, इदं च श्रोत्रादिप्रभवमेव, यत्तु औत्पत्तिक्याद्यश्रुतनिश्रितं तत्रार्थावग्रहः सम्भवति, यदाह10 किह पडिकुक्कुडहीणो जुज्झे बिंबेण उग्गहो ईहा ।
किं सुसिलिट्ठमवाओ दप्पणसंकंतबिंबं ति ॥ [विशेषाव० ३०४] न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वात्, बुद्धीनां तु मानसत्वात्, ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहो मन्तव्य इति ।
सुयणाणे इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानि, तेषु प्रविष्टं तदभ्यन्तरम्, 15 तत्स्वरूपमित्यर्थः, तच्च गणधरकृतम् ‘उप्पन्ने इ वा' इत्यादिमातृकापदत्रयप्रभवं वा,
ध्रुवश्रुतं वा आचारादि, यत् पुनः स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वोत्तराध्ययनादि तदङ्गबाह्यमिति, आह च
गणहर १ थेराइकयं २ आएसा १ मुक्कवागरणओ वा २ ।
धुव १ चलविसेसणाओ २ अंगाणंगेसु नाणत्तं ॥ [विशेषाव० ५५०] ति । 20 अंगबाहीत्यादि, अवश्यं कर्त्तव्यमावश्यकं सामायिकादि षड्विधम्, आह च
समणेण सावएण य अवस्स कायव्वयं हवइ जम्हा । अंतो अहोणिसिस्स य तम्हा आवस्सयं नामं ॥ [विशेषाव० ८७३]
आवश्यकाद् व्यतिरिक्तं ततो यदन्यदिति । आवस्सगवतिरित्तेत्यादि । यदिह दिवस-निशा-प्रथम-पश्चिमपौरुषीद्वय एव पठ्यते तत् कालेन निर्वृत्तं कालिकम् 25 उत्तराध्ययनादि, यत् पुनः कालवेलावर्जं पठ्यते तदूर्ध्वं कालिकादित्युत्कालिकं
दशकालिकादीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org