________________
[सू० ६०]
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः। स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति, आह चऋजु सामन्नं तम्मत्तगाहिणी ऋजुमती मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतितं मुणइ ॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मती विउला । चिंतियमणुसरइ घडं पसंगओ पज्जयसएहिं ॥ [विशेषाव० ७८४-७८५] ति ।
आभिणिबोहियेत्यादि, श्रुतं कर्मतापन्नं निश्रितम् आश्रितम्, श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितम्, यत् पूर्वमेव श्रुतकृतोपकारस्येदानीं पुनस्तदनपेक्षमेवानुप्रवर्त्तते तदवग्रहादिलक्षणं श्रुतनिश्रितमिति, यत् पुनः पूर्वं तदपरिकर्मितमते: क्षयोपशमपटीयस्त्वादौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद्वा श्रोत्रादिप्रभवं 10 तदश्रुतनिश्रितमिति, आह च
पुव्वं सुयपरिकम्मियमतिस्स जं संपयं सुयातीतं । तं निस्सियमियरं पुण अणिस्सियं मइचउक्तं तं ॥ [विशेषाव० १६९] ति ।।
सुयेत्यादि, अत्थोग्गहे त्ति अर्यते अधिगम्यतेऽर्थ्यते वा अन्विष्यत इति अर्थः, तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं 15 प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकं ज्ञानम्, दर्शनमिति यदुच्यते इत्यर्थः, स च नैश्चयिको यः स सामयिको यस्तु व्यावहारिकः शब्दोऽयमित्याद्युल्लेखवान् स आन्तमॊहूर्तिक इति, अयं चेन्द्रिय-मनःसम्बन्धात् षोढा इति । तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम्, तच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन उपकरणेन्द्रियेण शब्दादित्वपरिणतद्रव्याणां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह 20 ति, अथवा व्यञ्जनम् इन्द्रिय-शब्दादिद्रव्यसम्बन्धः आह च
जिज्जइ जेणऽत्थो घडो व्व दीवेण वंजणं तो तं ।। उवगरणिंदियसद्दादिपरिणयद्दव्वसंबंधो ॥ [ विशेषाव० १९४] त्ति । * अयं च मनो-नयनवर्जेन्द्रियाणां भवतीति चतुर्द्धा, नयन-मनसो
तार्थपरिच्छेदकत्वात्, इतरेषां पुनरन्यथेति । ननु व्यञ्जनावग्रहो ज्ञानमेव न भवति, 25 न्द्रिय-शब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात्, बधिरादीनामिवेति. नैवम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org