________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ___ अथवा परैरुक्षा सम्बन्धनं जन्य-जनकभावलक्षणमस्येति परोक्षम् इन्द्रियमनोव्यवधानेनाऽऽत्मनोऽर्थप्रत्यायकम्, असाक्षात्कारीत्यर्थः । पच्चक्खेत्यादि, केवलम् एकं ज्ञानं केवलज्ञानम्, तदन्यद् नोकेवलज्ञानम् अवधि-मनःपर्यायलक्षणमिति ।
केवलेत्यादि, भवत्थकेवलनाणे चेव त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि। 5 भवत्थेत्यादि, सह योगैः कायव्यापारादिभिर्यः स सयोगी, इन्समासान्तत्वात्, स चासौ भवस्थश्च, तस्य केवलज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगी शैलेशीकरणव्यवस्थितः, शेषं तथैव । सयोगीत्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो व्यादिः समयो यस्य स तथा, शेषं तथैव।
अथवेत्यादि, चरम: अन्त्यः समयो यस्य सयोग्यवस्थायाः स तथा, शेषं तथैव । 10 एवमिति सयोगिसूत्रवत् प्रथमा-ऽप्रथम-चरमा-ऽचरमविशेषणयुक्तमयोगिसूत्रमपि
वाच्यमिति । सिद्धेत्यादि, अनन्तरसिद्धो यः सम्प्रतिसमये सिद्धः, स चैकोऽनेको वा, तथा परम्परसिद्धो यस्य व्यादयः समयाः सिद्धस्य, सोऽप्येकोऽनेको वेति, तेषां यत् केवलज्ञानं तत्तथाऽपदिश्यत इति । ओहिनाणेत्यादि, भवपच्चइए त्ति
क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्राधान्येन भव एव प्रत्ययो 15 यस्य तद्भवप्रत्ययमिति व्यपदिश्यत इति, इदमेव भाष्यकारेण साक्षेप-परिहारमुक्तम्, तत्राक्षेप:
ओही खओवसमिए भावे भणितो भवो तहोदइए । तो किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोण्हं ॥ [विशेषाव० ५७३] ति देव-नारकयोः । अत्र परिहार:- सो वि हु खओवसमओ किन्तु स एव खओवसमलाभो ।
___ तम्मि सइ होयऽवस्सं भण्णइ भवपच्चओ तो सो ॥[विशेषाव०५७४] यतः- उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया ।
दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ [विशेषाव० ५७५] त्ति । तथा तदावरणस्य क्षयोपशमे भवं क्षायोपशमिकमिति । मणपज्जवेत्यादि, ऋज्वी सामान्यग्राहिणी मतिः ऋजुमतिः घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धनं 25 मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला विशेषग्राहिणी मतिर्विपुलमतिः घटोऽनेन चिन्तितः
१. “अत इनि-ठनौ” -पा० ५।२।११५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org