________________
[सू० ५९]
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः। तावन्निरूपयति, तत्र दुविहे दंसणे इत्यादिसूत्राणि सप्त सुगमान्येव, नवरं दृष्टिदर्शनं तत्त्वेषु रुचिः, तच्च सम्यग् अविपरीतं जिनोक्तानुसारि, तथा मिथ्या विपरीतमिति । सम्मइंसणे इत्यादि, निसर्गः स्वभावोऽनुपदेश इत्यनर्थान्तरम्, अभिगमोऽधिगमो गुरूपदेशादिरिति, ताभ्यां यत्तत् तथा, क्रमेण मरुदेवी-भरतवदिति । निसग्गेत्यादि, प्रतिपतनशीलं प्रतिपाति सम्यग्दर्शनमौपशमिकं क्षायोपशमिकं च, अप्रतिपाति 5 क्षायिकम्, तत्रैषां क्रमेण लक्षणम्- इहौपशमिकी श्रेणिमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिथ्यादृष्टिरकृतसम्यक्त्वमिथ्यात्व-मिश्राभिधानशुद्धा-ऽशुद्धोभयरूपमिथ्यात्वपुद्गलत्रिपुञ्जीक एव अक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यक्त्वं प्रतिपद्यते तस्यौपशमिकं भवतीति, कथम् ? इह यदस्य मिथ्यादर्शनमोहनीयमुदीर्णं तदनुभवेनैवोपक्षीणमन्यच्च मन्दपरिणामतया 10 नोदितमतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते, विष्कम्भितोदयमित्यर्थः, तावन्तं कालमस्यौपशमिकसम्यक्त्वलाभ इति, आह चउवसामगसेढिगयस्स होइ उवसामिअं तु सम्मत्तं । जो वा अकयतिपुञ्जी अखवियमिच्छो लहइ सम्मं ॥ खीणम्मि उदिन्नम्मी अणुदिज्जंते य सेसमिच्छत्ते । अंतोमुहुत्तकालं उवसमसम्मं लहइ जीवो ॥ [विशेषाव० ५२९-५३०] त्ति।
अन्तर्मुहूर्त्तमात्रकालत्वादेवास्य प्रतिपातित्वम् । यच्चानन्तानुबन्ध्युदये औपशमिकसम्यक्त्वात् प्रतिपततः सास्वादनमुच्यते तदौपशमिकमेव, तदपि च प्रतिपात्येव, जघन्यतः समयमात्रत्वादुत्कृष्ट तस्तु षडावलिकामानत्वादस्ये ति, तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्णं तदुपक्षीणं यच्चानुदीर्णं तदुपशान्तम्, उपशान्तं नाम 20 विष्कम्भितोदयमपनीतमिथ्यास्वभावं च, तदिह क्षयोपशमस्वभावमनुभूयमानं मायोपशमिक मित्युच्यते । नन्वौ पशमिकेऽपि क्षयश्चोपशमश्च तथेहापीति कोऽनयोर्विशेषः ?, उच्यते, अयमेव हि विशेष: यदिह वेद्यते दलिकं न तत्र, इह हि प्रायोपशमिके पूर्वशमितमनु समयमुदेति वेद्यते क्षीयते च, औपशमिके दयविष्कम्भणमात्रमेव, आह च
____ 25
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org