________________
७८
७८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे तथा अत्यन्तं सुखेनैव विमुञ्चति यो देहिनं स सुखविमोचतरक इति । मोहजस्तु तद्विपरीतः, ऐकान्तिकात्यन्तिकभ्रमस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनाऽनन्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्राद्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तम्- दुहवेयतराए चेव दुहविमोयतराए चेव त्ति, अतिशयेन 5 दुःखवेद्य एव दुःखविमोच्य एव चासाविति ।
[सू० ५८] दो दंडा पन्नत्ता, तंजहा-अट्ठादंडे चेव अणट्ठादंडे चेव । नेरइयाणं दो दंडा पन्नत्ता, तंजहा-अट्ठादंडे य अणट्ठादंडे य । एवं चउवीसादंडओ जाव वेमाणियाणं ।
[टी०] उन्मादात् प्राणी प्राणातिपातादिरूपे दण्डे प्रवर्त्तते दण्डभाजनं वा भवतीति 10 दण्डं निरूपयन्नाह- दो दंडे त्यादि, दण्डः प्राणातिपातादिः, स चाऽर्थाय
इन्द्रियादिप्रयोजनाय यः सोऽर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति । उक्तरूपमेव दण्ड सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह- णेरइयाणमित्यादि । एवमिति नारकवदर्थदण्डानर्थदण्डाभिलापेन चतुर्विंशतिदण्डको नेयः, नवरं नारकस्य स्वशरीररक्षार्थं
परस्योपहननमर्थदण्डः, प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनामनाभोगेनाप्याहारग्रहणे 15 जीववधभावादर्थदण्डोऽन्यथा त्वनर्थदण्डः, अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति।
[सू० ५९] दुविहे दंसणे पन्नत्ते, तंजहा-सम्मइंसणे चेव मिच्छादंसणे चेव १। सम्मइंसणे दुविहे पन्नत्ते, तंजहा-णिसग्गसम्मइंसणे चेव अभिगमसम्मइंसणे
चेव २। णिसग्गसम्मइंसणे दुविहे पन्नत्ते, तंजहा-पडिवाति चेव अपडिवाति 20 चेव ३। अभिगमसम्मइंसणे दुविहे पन्नत्ते, तंजहा-पडिवाति चेव अपडिवाति
चेव ४। मिच्छादसणे दुविहे पन्नत्ते, तंजहा-अभिगहियमिच्छादसणे चेव अणभिगहियमिच्छादंसणे चेव ५। अभिगहियमिच्छादंसणे दुविहे पन्नत्ते, तंजहासपज्जवसिते चेव अपज्जवसिते चेव ६। एवमणभिगहितमिच्छादंसणे वि ७।
टी०] सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छुर्दर्शनं सामान्येन १. चासौ । जे१सं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org