________________
७७
10
[सू० ५६-५७] द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । च्चेव अभिसमेच्च च्चेव जाव केवलनाणं उप्पाडेजा ।
[टी०] कथं पुनर्द्धर्मादीनि विद्या-चरणस्वरूपाणि प्राप्नोतीत्याह- दो ठाणाइमित्याद्येकादशसूत्री सुगमा । धादिलाभ एव पुनः कारणान्तरद्वयमाहदोहीत्यादि सुगमम्, केवलं श्रवणतया श्रवणभावेन, सोच्च च्चेव त्ति ह्रस्वत्वादि प्राकृतत्वादेव, श्रुत्वा आकर्ण्य, तस्यैवोपादेयतामिति गम्यते, अभिसमेत्य समधिगम्य, 5 तामेवावबुध्येत्यर्थः, उक्तं च
सद्धर्मश्रवणादेव नरो विगतकिल्बिषः । ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः ॥ धर्मोपादेयतां ज्ञात्वा सञ्जातेच्छोऽत्र भावतः । दृढं स्वशक्तिमालोच्य ग्रहणे संप्रवर्तते ॥ [धर्मबिन्दौ ३१-२] इति । एवं बोहिं बुज्झेज्जेत्यादि यावत् केवलनाणं उप्पाडेज्ज त्ति । [सू० ५६] दो समाओ पन्नत्ताओ, तंजहा-ओसप्पिणी समा चेव उस्सप्पिणी समा चेव।
[टी०] केवलज्ञानं च कालविशेषे भवतीति तमाह- दो समाओ इत्यादि । समा कालविशेषः, शेष सुगमम् ।
15 [सू० ५७] दुविहे उम्माए पन्नत्ते, तंजहा-जक्खावेसे चेव, मोहणिज्जस्स चेव कम्मस्स उदएणं । तत्थ णं जे से जक्खावेसे से णं सुहवेयतराए चेव सुहविमोयतराए चेव । तत्थ णं जे से मोहणिजस्स कम्मस्स उदएणं से णं दुहवेयतराए चेव दुहविमोयतराए चेव ।।
[टी०] केवलज्ञानं मोहनीयोन्मादक्षय एव भवत्यतः सामान्येनोन्मादं निरूपयन्नाह- 20 दुविहे उम्माए इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेशः देवाधिष्ठितत्वम्, ततो यः स यक्षावेश एवेत्येकः, मोहनीयस्य दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, तत्रेति तयोर्मध्ये योऽसौ यक्षावेशेन भवति स सुखवेद्यतरक एव मोहजनितग्रहापेक्षयाऽकृच्छानुभवनीयतर एव, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति, अतिशयेन सुखं विमोच्यते त्याज्यते यः स सुखविमोच्यतरकश्चैव, मन्त्र- 25 मूलादिमात्रसाध्यत्वादस्येति, अथवा अत्यन्तं सुखापेयः सुखापनेयः सुखापेयतरः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org