________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे गेहान्निष्क्रम्येति गम्यते, केवलामित्यस्येह सम्बन्धात् केवलां परिपूर्णां विशुद्धां वाऽनगारितां प्रव्रज्यां प्रव्रजेत् यायादिति । एवमिति यथा प्राक् तथोत्तरवाक्येष्वपि दो ठाणा इत्यादि वाक्यं पठनीयमित्यर्थः, ब्रह्मचर्येण अब्रह्मविरमणेन वासो रात्रौ स्वापः तत्रैव वा वासो निवासो ब्रह्मचर्यवासस्तावसेत् कुर्यादिति, संयमेन 5 पृथिव्यादिरक्षणलक्षणेन संयमयेदात्मानमिति, संवरेण आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वाराणीति गम्यते, केवलं परिपूर्णं सर्वस्वविषयग्राहकम् आभिणिबोहियनाणं ति अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयस्वभावत्वाद् बोधो वेदनमभिनिबोधः, स एवाभिनिबोधिकम्, तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानम्
इन्द्रियानिन्द्रियनिमित्तमोघतः सर्वद्रव्यासर्वपर्यायविषयम् उप्पाडेज्ज त्ति उत्पादयेदिति, 10 तथा एवमित्यनेनोत्तरपदेषु नो केवलं उप्पाडेज्ज त्ति द्रष्टव्यम्, सुयनाणं ति श्रूयते
तदिति श्रुतं शब्द एव, स च भावश्रुतकारणत्वात् ज्ञानं श्रुतज्ञानं श्रुतग्रन्थानुसारि ओघतः सर्वद्रव्यासर्व पर्यायविषयमक्षरश्रुतादिभेदमिति । तथा ओहिनाणं ति अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयते इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेत्यवधिः अवधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधानं 15 वाऽवधिर्विषयपरिच्छे दनमिति, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानम् इन्द्रिय
मनोनिरपेक्षमात्मनो रूपिद्रव्यसाक्षात्करणमिति । तथा मणपज्जवनाणं ति मनसि मनसो वा पर्यवः परिच्छेदः स एव ज्ञानम्, अथवा मनसः पर्यवाः पर्यया: पर्याया वा विशेषाः अवस्था मनःपर्यवादयस्तेषां तेषु वा ज्ञानं मन:पर्यवज्ञानम्, एवमितरत्रापि,
समयक्षेत्रगतसंज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति । केवलनाणं ति केवलम् असहायं 20 मत्यादिनिरपेक्षत्वादकलकं वा आवरणमलाभावात् सकलं वा
तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणं वा अनन्यसदृशत्वादनन्तं वा ज्ञेयानन्तत्वात् तच्च तज्ज्ञानं च केवलज्ञानमिति ।
[सू० ५५] दो ठाणाइं परियाइत्ता आया केवलिपन्नत्तं धम्मं लभेज सवणयाए, तंजहा-आरंभे चेव परिग्गहे चेव, एवं जाव केवलनाणमुप्पाडेजा। 25 दोहं ठाणेहिं आया केवलिपनत्तं धम्मं लभेज सवणयाए, तंजहा-सोच्च .१. वसेत जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org