SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ [सू० ५४] द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । क्रियाभ्यामसावुक्त इति कथं न विरोधः ?, अथ द्विस्थानकानुरोधादेवं निर्देशेऽपि न विरोधः, नैवम्, अवधारणगर्भत्वात् निर्देशस्येति, अत्रोच्यते, विद्याग्रहणेन दर्शनमप्यविरुद्धं द्रष्टव्यम्, ज्ञानभेदत्वात् सम्यग्दर्शनस्य, यथा हि अवबोधात्मकत्वे सति मतेरनाकारत्वादवग्रहेहे दर्शनं साकारत्वाच्चाऽवाय-धारणे ज्ञानमुक्तमेवं व्यवसायात्मकत्वे सत्यवायस्य रुचिरूपोंऽशः सम्यग्दर्शनम्, अवगमरूपोंऽशोऽवाय एवेति न विरोधः, 5 अवधारणं तु ज्ञानादिव्यतिरेकेण नान्य उपायो भवव्यवच्छेदस्येति दर्शनार्थमिति । [सू० ५४] दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नत्तं धम्मं लभेज सवणयाए, तंजहा-आरंभे चेव परिग्गहे चेव १। दो ठाणाई अपरियाणित्ता आया णो केवलं बोधिं बुज्झेजा, तंजहा-आरंभे चेव परिग्गहे चेव २। दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता अगाराओ अणगारियं 10 पव्वएजा, तंजहा-आरंभे चेव परिग्गहे चेव ३॥ एवं णो केवलं बंभचेरवासमावसेज्जा ४, णो केवलेणं संजमेणं संजमेजा ५, नो केवलेणं संवरेणं संवरेज्जा ६, नो केवलमाभिणिबोधियणाणं उप्पाडेजा ७, एवं सुयनाणं ८, ओहिनाणं ९, मणपज्जवनाणं १०, केवलनाणं ११॥ [टी०] विद्या-चरणे च कथमात्मा न लभत इत्याह- दो ठाणाइमित्यादि- 15 सूत्राण्येकादश, द्वे स्थाने द्वे वस्तुनी अपरियाणित्त त्ति अपरिज्ञाय ज्ञपरिज्ञया यथैतावारम्भ-परिग्रहावनाय तथा अलं ममाभ्यामिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिज्ञया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिविण्ण इत्यर्थः, अपरियाइत्त त्ति क्वचित् पाठः, तत्र स्वरूपतस्तावपर्यादायाऽगृहीत्वेत्यर्थः, आत्मा नो नैव केवलिप्रज्ञप्तं जिनोक्तं धम्मं श्रुतधर्मं लभेत श्रवणतया श्रवणभावेन, श्रोतुमित्यर्थः, 20 तद्यथा- आरम्भाः कृष्यादिद्वारेण पृथिव्याधुपमर्दास्तान्, परिग्रहा धर्मसाधनव्यतिरेकेण धन-धान्यादयस्तान्, इह चैकवचनप्रक्रमेऽपि व्यक्त्यपेक्षं बहुवचनम्, अवधारण-समुच्चयौ स्वबुद्ध्या नेयाविति। केवलां शुद्धां बोधिं दर्शनं सम्यक्त्वमित्यर्थो बुध्येत अनुभवेत्, अथवा केवलया बोध्येति विभक्तिपरिणामात् बोध्यं जीवादीति गम्यते बुध्येत श्रद्दधीतेति। मुण्डो द्रव्यतः शिरोलोचेन भावतः कषायाद्यपनयनेन भूत्वा संपद्य अगाराद् 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy