________________
७४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे यतो ज्ञानफलमेवासौ' इति, तदयुक्तम्, यतो यत एव ज्ञानात् क्रिया ततश्चेष्टफलप्राप्तिरत एवोभयमपि कारणमिष्यते, अन्यथा हि ज्ञानफलं क्रियेति क्रियापरिकल्पनमनर्थकम्, ज्ञानमेव हि क्रियाविकलमपि प्रसाधयेत्, न च साधयति, क्रियाऽभ्युपगमात्, ज्ञानक्रियाप्रतिपत्तौ च ज्ञानं परम्परयोपकुरुते अनन्तरं च क्रिया यतस्तस्मात् क्रियैव प्रधानतरं 5 युक्तं कारणम्, नाप्रधानमकारणं चेति, अथ युगपदुपकुरुतस्तत उभयमपि युक्तम्, न
युक्तमप्राधान्यं क्रियाया अकारणत्वं चेति । यः पुनरकारणत्वमेव क्रियायाः प्रतिपद्यते तं प्रतीदं विशेषेणोच्यते- क्रिया हि साक्षात्कारित्वात् कारणमन्त्यम्, ज्ञानं तु परम्परोपकारित्वादनन्त्यम्, अतः को हेतुर्यदन्त्यं विहायानन्त्यं कारणमिष्यते ?, अथ
सहचारिताऽङ्गीक्रियते अनयोः, अतोऽपि हि ज्ञानमेव कारणं न क्रियेत्यत्र न हेतुरस्तीति। 10 यच्चोक्तम्-‘बोधकालेऽपी'त्यादि, तत्र ज्ञेयपरिच्छेदो ज्ञानमेवेति रागादिशमश्च संयमक्रियैव
ज्ञानकारणा भवेदिति प्रतिपद्यामहे, किन्तु तत्फले भववियोगाख्येऽयं विचारो यदुत किं तत् ज्ञानस्य क्रियायास्तदुभयस्य वा फलमिति ?, तत्र न ज्ञानस्यैव, क्रियाफलत्वात् तस्य, नापि के वलक्रियायाः, क्रियामात्रत्वात्, उन्मत्तकक्रि यावत्, ततः पारिशेष्याज्ज्ञानसहितक्रियायाः इति । यच्चोक्तम् ‘अनुस्मृतिज्ञानमात्रान्मन्त्रादीनां 15 फलमुपलभ्यते', तत्र ब्रूमः-मन्त्रेष्वपि परिजपनादिक्रियायाः साधनभावो न मन्त्रज्ञानस्य। प्रत्यक्षविरुद्धमिदमिति चेद् यतो दृष्टं हि क्वचित् मन्त्रानुस्मृतिमात्रज्ञानादिष्टफलमिति, अत्रोच्यते, न मन्त्रज्ञानमात्रनिर्वर्त्य तत्फलम्, तज्ज्ञानस्याक्रियत्वात्, इह यदक्रियं न तत् कार्यस्य निर्वर्तकं दृष्टं यथाऽऽकाशकुसुमम्, यच्च निवर्तकं तदक्रियं न भवति,
यथा कुलालः, न चेदं प्रत्यक्षविरुद्धम्, न हि ज्ञानं साक्षात् फलमुपहरदुपलक्ष्यत इति। 20 अथ यदि न मन्त्रज्ञानकृतं तत् फलं ततः कुतः पुनस्तदिति ? तत्समयनिबद्धदेवताविशेषेभ्य इति ब्रूमः, तेषां हि सक्रियत्वेन क्रियानिवर्त्यमेतत्, न मन्त्रज्ञानसाध्यमिति । आह च
तो तं कत्तो ? आचार्य:- भण्णति, तस्समयनिबद्धदेवओवहियं । किरियाफलं चिय जओ न मंतणाणोवओगस्स ॥ [विशेषाव० ११४१] त्ति ।
ननु सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्गः [ तत्त्वार्थ० १।१] इति श्रूयते, इह तु ज्ञान१. पृ० ७३ पं० १३ ।। २. °लभ्यत जे१ ॥ ३. कृतं फलं जे१ खं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org