________________
७३
10
[सू० ५३]
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । चाउरंतसंसारकंतारं वीतिवतेजा, तंजहा-विजाए चेव चरणेण चेव ।
[टी०] ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह- दोहिं ठाणेहीत्यादि, द्वाभ्यां स्थानाभ्यां गुणाभ्यां सम्पन्नो युक्तो नास्यागारं गेहमस्तीत्यनगारः साधुः, नास्त्यादिरस्येत्यनादिकं तत्, अवदग्रं पर्यन्तः, तन्नास्ति यस्य सामान्यजीवापेक्षया तदनवदग्रं तत्, दीर्घा अद्धा कालो यस्य तद् दीर्घाद्धं तत्, मकार आगमिकः, दी? 5 वाऽध्वा मार्गो यस्मिंस्तद्दीर्घाध्वं तच्चतुरन्तं चतुर्विभागं नरकादिगतिविभागेन, दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं भवारण्यं व्यतिव्रजेद् अतिक्रामेत्, तद्यथा- विद्यया
चैव ज्ञानेन चैव चरणेन चैव चारित्रेण चैवेति, इह च संसारकान्तारव्यतिव्रजनं प्रति विद्या-चरणयोर्योगपद्ये नैव कारणत्वमवगन्तव्यम्, एकै कशो विद्याक्रिययोरैहिकार्थेष्वप्यकारणत्वात् ।
नन्वनयोः कारणतया अविशेषाभिधानेऽपि प्रधानं ज्ञानमेव न चरणम्, अथवा ज्ञानमेवैकं कारणं न तु क्रिया, यतो ज्ञानफलमेवासौ । किञ्च, यथा क्रिया ज्ञानस्य फलं तथा शेषमपि यत् क्रियानन्तरमवाप्यते, बोधकालेऽपि यज्ज्ञेयपरिच्छेदात्मकं यच्च रागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणम्, यथा मृत्तिका घटस्य कारणं भवन्ती तदन्तरालवर्त्तिनां पिण्ड-शिवक-स्थास-कोश-कुशूलादीनामपि कारणतामापद्यते तथेह 15 ज्ञानमपि भवाभावस्य तदन्तरालवर्त्तिनां च तत्त्वपरिच्छेद-समाधानादीनां कारणमिति, यच्चानुस्मरणमात्रमन्त्रपूतविषभक्षण-नभोगमनादिकमनेकविधं फलमुपलभ्यते साक्षात्तदपि क्रियाशून्यस्य ज्ञानस्य, यथा चैतद् दृष्टफलं तथा अदृष्टमप्यनुमीयत इति, आह च
आह पहाणं नाणं न चरित्तं नाणमेव वा सुद्धं । कारणमिह न उ किरिया सा वि हु नाणप्फलं जम्हा ॥ जह सा नाणस्स फलं तह सेसं पि तह बोहकाले वि । नेयपरिच्छेयमयं रागादिविणिग्गहो जो य॥ जं च मणोचिंतियमंतपूयविसभक्खणादि बहुभेयं । फलमिह तं पच्चक्खं किरियारहियस्स नाणस्स ॥ [विशेषाव० ११३३-११३५] त्ति ।
अत्रोच्यते, यत्तावदुक्तम्- 'ज्ञानमेव प्रधानम्, ज्ञानमेव चैकं कारणम्, न क्रिया, 25 १. “अतः समृद्ध्यादौ वा।८।१।४४। समृद्धि इत्येवमादिषु शब्देषु आदेरकारस्य दीर्घो वा भवति । सामिद्धी समिद्धी। पासिद्धी पसिद्धी । पायडं पयर्ड ।... ... चतरन्तं चाउरतं...." - प्राकतव्या० टी० ॥ २. संभवन्ती जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org