________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
न मनसा भावतो दुश्चरिताविरक्तत्वाज्जनरञ्जनार्थं गर्हाप्रवृत्ताङ्गारमर्द्दकादिप्रायसाधुवत् aisa र्हत इति । अथवा मणसा वेगे त्ति इह अपिः, स च सम्भावने, तेन सम्भाव्यते अयमर्थः- अपि मनसैको गर्हते अन्यो वचसेति । अथवा मनसाऽपि न केवलं वचसा एको गर्हते । तथा वचसाऽपि न केवलं मनसा, एक इति स एव 5 गर्हते, उभयथाप्येक एव गर्हत इति भावः ।
अन्यथा गर्हाद्वैविध्यमाह— अहवेत्यादि । अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षः, द्विविधा गर्दा प्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपि दीर्घा बृहतीम् अद्धां कालं यावदेकः कोऽपि गर्हते गर्हणीयमाजन्मापीत्यर्थः, अन्यथा वा दीर्घत्वं विवक्षया भावनीयम्, आपेक्षिकत्वात् दीर्घह्रस्वयोरिति । एवमपि ह्रस्वाम् अल्पां यावदेकोऽन्य 10 इति । अथवा दीर्घामेव यावत् ह्रस्वामेव यावदिति व्याख्येयमपेरवधारणार्थत्वादिति । एक एव वा द्विधा कालभेदेन गर्हते भावभेदादिति । अथवा दीर्घं ह्रस्वं वा कालमेव गत इति ।
15
७२
25
[सू० ५२] दुविहे पच्चक्खाणे पन्नत्ते, तंजहा - मणसा वेगे पच्चक्खाति, वयसा वेगे पच्चक्खति ।
अहवा पच्चक्खाणे दुविहे पन्नत्ते, तंजहा - दीहं पेगे अद्धं पच्चक्खाति, रहस्सं पेगे अद्धं पच्चखाति ।
[टी०] अतीते गर्थे कर्मणि गर्हा भवति, भविष्यति तु प्रत्याख्यानम्, उक्तं चअइयं निंदामि पडुप्पन्नं संवरेमि अणागयं पच्चक्खामी [ पाक्षिकसू० ] ति । प्रत्याख्यानमाहदुविहे पच्चक्खाणे इत्यादि, प्रमादप्रातिकूल्येन मर्यादया ख्यानं कथनं प्रत्याख्यानम्, 20 विधि - निषेधविषया प्रतिज्ञेत्यर्थः तच्च द्रव्यतो मिथ्यादृष्टेः सम्यग्दृष्टेर्वाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारणकदिनमांसदानप्रवृत्ताया राजदुहितुरिवेति, भावप्रत्याख्यानमुपयुक्तसम्यग्दृष्टेरिति, तच्च देश- सर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्विविधम्, आह च- मनसा वैकः प्रत्याख्याति वधादिकं निवृत्तिविषयीकरोति, शेषं प्रागिवेति । प्रकारान्तरेणापि तदाह- अहवेत्यादि सुगमम् । [सू० ५३] दोहिं ठाणेहिं अणगारे संपन्ने अणादीयं अणवयग्गं दीहमद्धं
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org