________________
[सू० ५१]
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । अणाउत्तपमज्जणया चेव त्ति अनायुक्तस्यैव पात्रादिविषया प्रमार्जनता अनायुक्तप्रमार्जनता, इह च ताप्रत्ययः स्वार्थिकः प्राकृतत्वेन आदानादीनां भावविवक्षया वेति ३२॥
द्वितीयाऽपि द्विविधा- आयसरीरेत्यादि, तत्रात्मशरीरानवकाङ्क्षाप्रत्यया स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तु कुर्वतो द्वितीयेति ३३। 5
दो किरियेत्यादि त्रीणि सूत्राणि कण्ठ्यानि, नवरं प्रेम रागो माया-लोभलक्षणः, द्वेषः क्रोध-मानलक्षण इति ३६। यदत्र न व्याख्यातं तत् सुगमत्वादिति ।
[सू० ५१] दुविहा गरहा पन्नत्ता, तंजहा-मणसा वेगे गरहति, वयसा वेगे गरहति ।
अहवा गरहा दुविहा पन्नत्ता, तंजहा-दीहं पेगे अद्धं गरहति, रहस्सं पेगे 10 अद्धं गरहति ।
[टी०] एताश्च क्रियाः प्रायो गर्हणीया इति गर्हामाह- दविहा गरहेत्यादि, विधानं विधा, द्वे विधे भेदौ यस्याः सा द्विविधा, गर्हणं गर्दा दुश्चरितं प्रति कुत्सा, सा च स्व-परविषयत्वेन द्विविधा, साऽपि मिथ्यादृष्टेरनुपयुक्तसम्यग्दृष्टेश्च द्रव्यगर्हा, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्याप्रधानार्थत्वाद्, उक्तं च
15 अप्पाहन्ने वि इहं कत्थइ दिह्रो हु दव्वसद्दो त्ति । अंगारमद्दओ जह दव्वायरिओ सयाऽभव्वो ॥ [पञ्चा० ६।१३] त्ति ।
सम्यग्दृष्टेस्तूपयुक्तस्य भावगर्हेति चतुर्द्धा गर्हणीयभेदाद् बहुप्रकारा वा, सा चेह करणापेक्षया द्विविधोक्ता, तथा चाह- मणसा वेगे गरहइ त्ति मनसा चेतसा वाशब्दो विकल्पार्थो अवधारणार्थो वा, ततो मनसैव न वाचेत्यर्थः, कायोत्सर्गस्थो दुर्मुख- 20 सुमुखाभिधानपुरुषद्वयनिन्दिता-ऽभिष्टुतस्तद्वचनोपलब्धसामन्तपरिभूतस्वतनयराजवार्ता मनसा समारब्धपुत्रपरिभवकारिसामन्तसङ्ग्रामो वैकल्पिक प्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंस्पृष्टलुञ्चितमस्तकस्ततः समुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिगर्हते जुगुप्सते, गीमिति गम्यते, तथा वचसा वा वाचा वा, अथवा वचसैव 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org