SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ७० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे स्वहस्तगृहीतेनैवाजीवेन खड्गादिना जीवं मारयति सा अजीवस्वाहस्तिकीति । अथवा स्वहस्तेन जीवं ताडयत एका, अजीवं ताडयतोऽन्येति २६। द्वितीयाऽपि जीवा-ऽजीवभेदैवेत्यतिदिशन्नाह- एवं नेसत्थिया चेव त्ति, तथाहि- राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिर्निसर्जनं सा जीवनैसृष्टिकीति, यत्तु काण्डादीनां 5 धनुरादिभिः सा अजीवनैसृष्टिकीति । अथवा गुर्बादौ जीवं शिष्यं पुत्रं वा निसृजतो ददत एका, अजीवं पुनरेषणीयभक्तपानादिकं निसृजतो त्यज़तोऽन्येति २७) पुनरन्यथा द्वे- आणवणिया चेव त्ति आज्ञापनस्य आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी, सैवाऽऽज्ञापनिका, तज्जः कर्मबन्धः आदेशनमेव वेति, आनायनं वा आनायनी । तथा वेयारणिया चेव त्ति विदारणं विचारणं वितारणं वा 10 स्वार्थिकप्रत्ययोपादानाद् वैदारणीत्यादि वाच्यमिति २८.. एते च द्वे अपि द्वेधा जीवाजीवभेदादिति, तथाहि- जीवमाज्ञापयत आनाययतो वा परेण जीवाज्ञोपनी जीवानायनी वा, एवमेवाजीवविषया अजीवाज्ञापनी अजीवानायनी वेति २९। तथा जीवमजीवं वा विदारयति स्फोटयतीति, अथवा जीवमजीवं वाऽसमानभाषेषु 15 विक्रीणति सति द्वैभाषिको विचारयति परियच्छावेइ त्ति भणितं होति, अथवा जीवं पुरुषं वितारयति प्रतारयति वञ्चयतीत्यर्थः, असद्गुणैरेतादृशः तादृशस्त्वमिति, पुरुषादिविप्रतारणबुद्धयैव वाऽजीवं भणत्ये तादृशमेतदिति यत् सा जीववेयारणियाऽजीववेयारणिया व त्ति । एतत् सर्वमतिदेशेनाह – जहेव नेसत्थिय त्ति ३० 20 अन्यथा वा द्वे- अणाभोगवत्तिया चेव त्ति अनाभोग: अज्ञानं प्रत्ययो निमित्तं यस्याः सा, तथा अणवकंखवत्तिया चेव त्ति अनवकाङ्क्षा स्वशरीराद्यनपेक्षत्वम्, सैव प्रत्ययो यस्याः साऽनवकाङ्क्षाप्रत्ययेति ३१। आद्या द्विधा- अणाउत्तआइयणया चेव त्ति अनायुक्तः अनाभोगवान् अनुपयुक्त इत्यर्थः, तस्याऽऽदानता वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा १. ज्ञप जे१, एवमग्रेऽपि सर्वत्र ।। २. ज्ञप जेमू१, ज्ञाप जेसं१ ॥ ३. तुलना- “अहवा जीवमजीवं वा अभासिएसु विक्केमाणो दोभासिओ व विदारेइ परियच्छावेइ त्ति भणियं होई" - आव०० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy