SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ [सू० ५०] द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः ।। सा दृष्टिजा दृष्टिका वा, तथा पुट्ठिया चेव त्ति पृष्टिः पृच्छा, ततो जाता पृष्टिजा, प्रश्नजनितो व्यापारः, अथवा पृष्टं प्रश्नः वस्तु वा तदस्ति कारणत्वेन यस्यां सा पृष्टिकेति, अथवा स्पृष्टिः स्पर्शनं ततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति १९/ __ आद्या द्वेधा- जीवदिट्ठिया चेव त्ति या अश्वादिदर्शनार्थं गच्छतः, तथा अजीवदिट्टिया चेव त्ति अजीवानां चित्रकर्मादीनां दर्शनार्थं गच्छतो या सा 5 अजीवदृष्टिकेति २० एवं पुट्ठिया वि त्ति एवमिति जीवाजीवभेदेन द्विधैव, तथाहि- जीवमजीवं वा राग-द्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवपृष्टिका जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति २१॥ पुनरन्यथा द्वे- पाडुच्चिया चेव त्ति बाह्य वस्तु प्रतीत्य आश्रित्य भवा प्रातीत्यिकी, 10 तथा सामन्तोवणिवाइया चेव त्ति समन्तात् सर्वत उपनिपातो जनमीलकस्तस्मिन् भवा सामन्तोपनिपातिकीति २२। - आद्या द्वेधा- जीवपाडुच्चिया चेव त्ति जीवं प्रतीत्य यः कर्मबन्धः सा तथा, तथा अजीवपाडुच्चिया चेव त्ति अजीवं प्रतीत्य यो राग-द्वेषोद्भवस्तज्जो वा बन्धः सा अजीवप्रातीत्यिकीति २३।। 15 द्वितीयापि द्विविधेत्यतिदिशन्नाह- एवं सामन्तोवणिवाइया वि त्ति, तथाहिकस्यापि षण्डो रूपवानस्ति, तं च जनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्यतीति जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीवसामन्तोपनिपातिकीति २४।। अन्यथा वा द्वे- साहत्थिया चेव त्ति स्वहस्तेन निर्वृत्ता स्वाहस्तिकी, तथा 20 नेसत्थिया चेव त्ति, निसर्जनं निसृष्टम्, क्षेपणमित्यर्थः, तत्र भवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्मबन्ध इत्यर्थः, निसर्ग एव वेति २५। तत्र आद्या द्वेधा- जीवसाहत्थिया चेव त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा अजीवसाहत्थिया चेव त्ति यच्च १. द्विधेत्य खं० । द्विधैवेत्य' खसं० पा० जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy