________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
आद्या द्वेधा - जीवआरंभिया चेव त्ति यज्जीवानारभमाणस्य उपमृद्नतः कर्मबन्धनं सा जीवारम्भिकी, तथा अजीवारंभिया चेव त्ति यच्चाजीवान् जीवकडेवराणि पिष्टादिमयजीवाकृतींश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भिकीति १४। एवं पारिग्गहिया चेव त्ति आरम्भिकीवद् द्विधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात् 5 तस्या इति भावः १५ ।
६८
15
पुनरन्यथा द्वे - मायावत्तिया चेव त्ति माया शाठ्यं प्रत्ययो निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वा सा तथा, मिच्छादंसणवत्तिया चेव त्ति मिथ्यादर्शनं मिथ्यात्वं प्रत्ययो यस्याः सा तथेति १६ ।
आद्या द्वेधा- आयभाववंकणया चेव त्ति आत्मभावस्याप्रशस्तस्य वङ्कनता 10 वक्रीकरणं प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रिया व्यापारत्वात्, तथा परभाववंकणया चेव त्ि परभावस्य वङ्कनता वञ्चनता या कूटलेखकरणादिभिः सा परभाववङ्कनतेति, यतो वृद्धव्याख्येयम्- तं तं भावमायरड़ जेण परो वंचिज्जइ कूडलेहकरणाईहिं [ आव० हरि०] ति १७
२
द्वितीयाऽपि द्वेधा - ऊणाइरित्तमिच्छादंसणवत्तिया चेव त्ति ऊनं स्वप्रमाणाद्धीनमतिरिक्तं ततोऽधिकमात्मादि वस्तु, तद्विषयं मिथ्यादर्श नमूनातिरिक्त मिथ्यादर्शनम्, तदेव प्रत्ययो यस्याः सा ऊनातिरिक्तमिथ्यादर्शनप्रत्ययेति । तथाहि - कोऽपि मिथ्यादृष्टिरात्मानं शरीरव्यापकमपि अङ्गुष्ठपर्वमात्रं यवमात्रं श्यामाकतन्दुलमात्रं वेति हीनतयाऽवैति, तथाऽन्यः पञ्चधनुः शतिकं 20 सर्वव्यापकं वेत्यधिकतयाऽभिमन्यते, तथा तव्वइरित्तमिच्छादंसणवत्तिया चेव त्ति तस्माद् ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शनं नास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति १८ ।
पुनरन्यथा द्वे - दिट्टिया चेव त्ति दृष्टेर्जाता दृष्टिजा, अथवा दृष्टं दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा दृष्टिका, दर्शनार्थं या गतिक्रिया दर्शनाद् वा यत् कर्मोदेति
१. द्विविधे पा० २ ॥ २. आवश्यकसूत्रस्य चतुर्थे प्रतिक्रमणाध्ययने पडिक्कमामि पंचहिं किरियाहिं इत्यस्य हारिभद्र्यां वृत्तौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org