________________
[सू० ४९]
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः ।
जदत्थिं च णं ति, तत्रानुस्वार आगमिकः, चशब्दः पुनरर्थः, एवं चास्य प्रयोगः - अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वाद्, यच्चास्ति लोके पञ्चास्तिकायात्मके, लोक्यते प्रमीयत इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा, तत् सर्वं निरवशेषं द्वयोः पदयोः स्थानयोः पक्षयोर्विवक्षितवस्तु तद्विपर्ययलक्षणयोरवतारो यस्य तद् द्विपदावतारमिति । दुपडोयारं ति क्वचित् पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तत् 5 द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवच्चेत्यर्थः । तद्यथेत्युदाहरणोपन्यासे, जीव च्चेव अजीव च्वेव त्ति, जीवाश्चैवाऽजीवाश्चैव, प्राकृतत्वात् संयुक्तपरत्वेन ह्रस्वः, चकारौ समुच्चयार्थी, एवकाराववधारणे, तेन च राश्यन्तरापोहमाह । नोजीवाख्यं राश्यन्तरमस्तीति चेत्, नैवम्, सर्वनिषेधकत्वे नोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एव प्रतीयते, न च देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति । 10 च्चेय इति वा एवकारार्थः, चिय च्चेय एवार्थ [ ] इति वचनात्, ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र । अथवा यदस्ति अस्तीति यत्, सन्मात्रं यदित्यर्थः, तद् द्विपदावतारं द्विविधम्, जीवाजीवभेदादिति, शेषं तथैव ।
-
अथ त्रसेत्यादिकया नवसूत्र्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति । तत्र 15 त्रसनामकर्मोदयतस्त्रस्यन्तीति त्रसाः द्वीन्द्रियादयः, स्थावरनामकर्मोदयाच्च तिष्ठन्तीत्येवंशीलाः स्थावराः पृथिव्यादयः । सह योन्या उत्पत्तिस्थानेन सयोनिका : संसारिणः, तद्विपर्यासभूताः अयोनिकाः सिद्धाः । सहाऽऽयुषा वर्तन्त इति सायुषः, तदन्येऽनायुषः सिद्धाः । एवं सेन्द्रियाः संसारिणः, अनिन्द्रियाः सिद्धादयः । सवेदकाः स्त्रीवेदाद्युदयवन्तः, अवेदकाः सिद्धादयः । सह रूपेण मूत्र्त्या वर्त्तन्त इति समासान्ते 20 इन्प्रत्यये सति सरूपिण: संस्थान - वर्णादिमन्तः, सशरीरा इत्यर्थः, न रूपिणोऽरूपिणो मुक्ताः । सपुद्गलाः कर्म्मादिपुद्गलवन्तो जीवाः, अपुद्गलाः सिद्धाः । संसारं भवं समापन्नका आश्रिताः संसारसमापन्नकाः संसारिणः, तदितरे सिद्धाः । शाश्वताः सिद्धाः जन्म-मरणादिरहितत्वाद्, अशाश्वताः संसारिणस्तद्युक्तत्वादिति ।
Jain Education International
६३
१. चेय जे१ । २. ' सान्तेन्द्र जे२ । 'सान्त इन्प्र' जे१ । 'सान्ते इनः प्र° खं० । " अत इनि ठनौ" पा० ५।२।११५ ।।
For Private & Personal Use Only
www.jainelibrary.org