________________
अथ द्वितीयमध्ययनं द्विस्थानकम् ।
प्रथम उद्देशकः । [सू० ४९] जदत्थि णं लोगे तं सव्वं दुपओआरं, तंजहा-जीव च्चेव अजीव च्चेव । 5 [१] तस च्चेव थावर च्चेव १, सजोणिय च्चेव अजोणिय च्चेव २, साउय च्चेव अणाउय च्चेव ३, सइंदिय च्चेव अणिंदिय च्चेव ४, सवेयगा चेव अवेयगा चेव ५, सरूवि चेव अरूवि चेव ६, सपोग्गला चेव अपोग्गला चेव ७, संसारसमावन्नगा चेव असंसारसमावन्नगा चेव ८, सासया चेव
असासया चेव ९। 10 [२] आगासे चेव नोआगासे चेव । धम्मे चेव अधम्मे चेव । बंधे चेव
मोक्खे चेव । पुन्ने चेव पावे चेव । आसवे चेव संवरे चेव । वेयणा चेव निजरा चेव ।
[टी०] व्याख्यातमेकस्थानकाख्यं प्रथममध्ययनम्, अतः सङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्य चायं विशेषसम्बन्धः- इह जैनानां 15 सामान्यविशेषात्मकं वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यने न सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तानि च प्रथमाध्ययनवत् द्रष्टव्यानि, यश्च विशेषः स स्वबुद्ध्याऽवगन्तव्यः, केवलमस्य
चतुरुद्देशकात्मकस्याध्ययनस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमिदमुच्चारणीयम्- जदत्थि 20 णमित्यादि । अस्य च पूर्वसूत्रेण सहायं सम्बन्धः- पूर्वं ह्युक्तम् ‘एकगुणरूक्षाः पुद्गलाः
अनन्ताः', तत्र किमनेकगुणरूक्षा अपि पुद्गला भवन्ति येन ते एकगुणरूक्षतया विशिष्यन्त इति ? उच्यते, भवन्त्येव, यतो जदत्थीत्यादि, परम्परासूत्रसम्बन्धस्तु श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातमेक आत्मे'त्यादि, अथेदमपरमाख्यातं जदत्थीत्यादि। संहितादिचर्चः पूर्ववत् । यद् जीवादिकं वस्तु अस्ति विद्यते, णमिति वाक्यालङ्कारे, क्वचित् पाठो १. (विशेष्यन्ते ?) ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org