________________
[सू० ४८]
प्रथममध्ययनम् एकस्थानकम् ।
प्रक्रान्ताध्ययनोक्तानामात्मादिपदार्थानामेकत्वमेवाभिमन्यते, सामान्यवादित्वात् तस्य, स हि ब्रूते - एकं नित्यं निरवयवं निष्क्रियं सर्वगतं च सामान्यमेवास्ति, न विशेषः, निःसामान्यत्वात्, इह यन्निः सामान्यं तन्नास्ति यथा खरविषाणम्, यच्चास्ति न तन्निः सामान्यं यथा घट इति, तथा सामान्यतोऽन्येऽनन्ये वा विशेषाः प्रतिप ( पा ? ) द्येरन् ?, यद्यन्ये ननूक्तमसन्तस्ते निःसामान्यत्वात् खपुष्पवत्, अथानन्ये तदा सामान्यमात्रमेव, तत्र वा 5 विशेषोपचारः, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह च
एक्कं निच्चं निरवयवमक्कियं सव्वगं च सामन्नं ।
निस्सामन्नत्ताओ नत्थि विसेसो खपुष्पं व ॥ [ विशेषाव० ३२ ] तथा सामन्नाओ विसेसो अन्नोऽनन्नो व्वं होज्ज ? जड़ अन्नो ।
६१
सो नत्थि खपुष्पं पि वणन्नो सामन्नमेव तयं ॥ [ विशेषाव० ३४] ति ।
तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमेव । विशेषनयमतेन तु तेषामनेकत्वमेव, स हि ब्रूते— विशेषेभ्यः सामान्यं भिन्नमभिन्नं वा स्यात् ?, न भिन्नम् अत्यन्तानुपलम्भात् खपुष्पवत्, तथा न सामान्यं विशेषेभ्यो भिन्नमस्ति, दाह - पाक - स्नान - पाना - ऽवगाहवाह-दोहादिसर्वसंव्यवहाराभावात् खरविषाणवत्, अथाभिन्नं तदा विशेषमात्रं वस्तु, न नाम सामान्यमस्ति, तेषु वा सामान्यमात्रोपचार इति, न चोपचारेणार्थतत्त्वं चिन्त्यत 15 इति । आह च
Jain Education International
न विसेसत्थंतरभूयमत्थि सामन्नमाह ववहारो । उवलंभव्ववहाराभावाओ खरविसाणं व ॥ [ विशेषाव० ३५ ] ति ।
तदेवमात्मादीनामनेकत्वमेवेति । ननु पक्षद्वयेऽपि युक्तिसम्भवात् किं तत्त्वं प्रतिपत्तव्यमिति ?, उच्यते, स्यादेकत्वं स्यादनेकत्वमिति, तथाहि - सम- 20 विषमरूपत्वाद्वस्तुनः समरूपापेक्षया एकत्वं विषमरूपापेक्षया त्वनेकत्वमिति, उक्तं चवस्तुन एव समानः परिणामो यः स एव सामान्यम् ।
विपरीतस्तु विशेषो वस्त्वेकमनेकरूपं तद् ।। [ ] इति ।
इति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे प्रथममध्ययनमेकस्थानकाभिधानं समाप्तमिति । श्लोकाः ११८७ ।
१. व इति विशेषावश्यकभाष्ये ।। २. लो०१२८७ जे१ । ग्रंथाग्रं श्लोकः १९८७ । नमः सर्वज्ञाय । खं० ॥
For Private & Personal Use Only
10
25
www.jainelibrary.org