________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे परिक्खेवेणं'ति, सुगममेतत्, उक्तविशेषणश्च जम्बूद्वीप एक एव, अन्यथा अनेकेऽपि ते सन्तीति।
[सू० ४५] एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरिमतित्थगरे सिद्धे बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे । 5 [टी०] अनन्तरं जम्बूद्वीप उक्त इति तत्प्ररूपकस्य भगवतो महावीरस्यैकतामाह
एगे समणे इत्यादि, एकः असहायः, अस्य च सिद्ध इत्यादिना सम्बन्धः, श्राम्यति तपस्यतीति श्रमणः, भज्यत इति भगः समग्रैश्वर्यादिलक्षणः, उक्तं च -
ऐश्वर्यस्य समग्रस्य, रूपस्य यशस: श्रियः ।
धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ [ ] इति ।। 10 स विद्यते यस्येति भगवान्, तथा विशेषेणेरयति मोक्षं प्रति गच्छति गमयति वा
प्राणिनः प्रेरयति वा कर्माणि निराकरोति वीरयति वा रागादिशत्रून् प्रति पराक्रमयति इति वीरः, निरुक्तितो वा वीरो, यदाह
विदारयति यत् कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः ॥ [ ] इतरवीरापेक्षया महांश्चासौ वीरश्चेति महावीरः, भाष्योक्तं तुतिहुयणविक्खायजसो महाजसो नामओ महावीरो । विक्वंतो य कसायाइसत्तुसेन्नप्पराजयओ ॥ ईरेइ विसेसेण व खिवइ कम्माइं गमयइ सिवं वा ।
गच्छइ अ तेण वीरो स महं वीरो महावीरो ॥ [ विशेषाव० १०५९-१०६०] त्ति । 20 अस्यामवसर्पिण्यां चतुर्विंशतेस्तीर्थकराणां मध्ये चरमस्तीर्थकरः सिद्धः कृतार्थो जातः, बुद्धः केवलज्ञानेन बुद्धवान् बोध्यम्, मुक्तः कर्मभिः, यावत्करणात् ‘अंतकडे' अन्तो भवस्य कृतो येन सोऽन्तकृतः, ‘परिनिव्वुडे' परिनिर्वृतः कर्मकृतविकारविरहात् स्वस्थीभूतः, किमुक्तं भवति ? सर्वाणि शारीरादीनि दुःखानि प्रक्षीणानि प्रहीणानि वा
यस्य स सर्वदुःखप्रक्षीणः सर्वदुःखप्रहीणो वा, सर्वत्र बहुव्रीहौ क्तान्तस्य यः परनिपातः 25 स आहिताग्न्यादिदर्शनादिति । इह च तीर्थकरेष्वेतस्यैवैकत्वं मोक्षगमने, न तु ऋषभादीनाम्, दशसहस्रादिपरिवृतत्वेन तेषां सिद्धत्वाद्, उक्तं च१. दृश्यतां पृ० ३५ टि० १॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org