________________
[सू० ४४]
प्रथममध्ययनम् एकस्थानकम्। परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, व्यणुकादय इत्यर्थः, स्कन्धाः अणुसमुदायाः, तेषाम्, उत्कृषन्तीत्युत्कर्षाः उत्कर्षवन्तः उत्कृष्टसङ्ख्याः परमानन्ताः प्रदेशा: अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकाः, तेषाम्, जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः, न तथा ये ते अजघन्योत्कर्षाः, मध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्योत्कर्षप्रदेशिकाः, तेषाम्, एतेषां चानन्तवर्गणत्वेऽप्यजघन्योत्कर्ष- 5 शब्दव्यपदेश्यत्वादेकवर्गणत्वमिति । जहन्नोगाहणगाणं ति अवगाहन्ते आसते यस्यां साऽवगाहना क्षेत्रप्रदेशरूपा, सा जघन्या येषां ते स्वार्थिकप्रत्ययाज्जघन्यावगाहनकाः, तेषाम्, एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यातप्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानां सङ्ख्येयासङ्ख्येयप्रदेशावगाढानामित्यर्थः। जघन्या जघन्यसङ्ख्या समयापेक्षया स्थितिर्येषां ते जघन्यस्थितिकाः, एकसमय- 10 स्थितिकाः इत्यर्थः, तेषाम्, उत्कर्षा उत्कर्षवत्सङ्ख्या समयापेक्षया स्थितिर्येषां ते तथा, तेषाम्, असङ्ख्यातसमयस्थितिकानामित्यर्थः, तृतीयं कण्ठ्यम्, जघन्येन जघन्यसङ्ख्याविशेषेणैकेनेत्यर्थः गुणो गुणनं ताडनं यस्य स तथा विधः कालो वर्णो येषां ते जघन्यगुणकालकाः, तेषाम्, एवमुत्कर्षगुणकालकानामनन्तगुणकालकानामित्यर्थः, तृतीयं कण्ठ्यम्, एवं भावसूत्राण्यपि षष्टि वनीयानीति । 15
[सू० ४४] एगे जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं जाव अद्धंगुलगं च किंचिविसेसाधिए परिक्खेवेणं ।
[टी०] सामान्यस्कन्धवर्गणैकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वमाह - एगे जंबुद्दीवेत्यादि । जम्ब्वा वृक्षविशेषेणोपलक्षितो द्वीपः जम्बूद्वीपः इति नाम, द्वीप इति सामान्यम्, यावद्ग्रहणादेवं 20 सूत्रं द्रष्टव्यम्-‘सव्वब्भंतरए सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिए एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलस सहस्साइं दोन्नि सयाई सत्तावीसाइं तिन्नि कोसा अट्ठावीसं धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहिए
१. 'दया: पा० ॥ २. 'शकस्या जे१ ॥ ३. जम्बूद्वीपप्रज्ञप्तौ प्रथमे वक्षस्कारे प्रारम्भ एव समानप्रायमिदं सूत्रं वर्तते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org