SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ५६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे उक्कस्सट्ठितियाणं अजहन्नुक्कस्सद्वितीयाणं ३, जहन्नगुणकालगाणं उक्कस्सगुणकालयाणं अजहन्नुक्कस्सगुणकालगाणं, एवं वण्ण-गंध-रस-फासाणं वग्गणा भाणियव्वा, जाव एगा अजहन्नुक्कस्सगुणलुक्खाणं पोग्गलाणं वग्गणा ४। [टी०] इतो द्रव्य-क्षेत्र-काल-भावानाश्रित्य पुद्गलवर्गणैकत्वं चिन्त्यते- एगा 5 परमेत्यादि, पूरणगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति विशेषयतिपरमाणवो निष्प्रदेशास्ते च पुद्गलाश्चेति विग्रहः, तेषाम्, एवंकरणात् 'दुपएसियाणं खंधाणं ति-चउ-पंच-छ-सत्त-ऽट्ठ-नव-दस-संखेज्जपएसियाणं असंखेज्जपएसियाण'मिति दृश्यमिति। कृता द्रव्यतः पुद्गलचिन्ता, अतः क्षेत्रतः क्रियते- एगा एगपएसेत्यादि, एकस्मिन् 10 प्रदेशे क्षेत्रस्यावगाढाः अवस्थिता एकप्रदेशावगाढाः, तेषाम्, ते च परमाण्वादयोऽनन्तप्रदेशिकस्कन्धान्ताः स्युः, अचिन्त्यत्वात् द्रव्यपरिणामस्य, यथा पारदस्यैकेन कर्षेण चरिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति, पुनर्वामिताः प्रयोगतः सप्तैव त इति । जाव एगा असंखेज्जपएसोगाढाणं ति, अनन्तप्रदेशावगाहित्वं तु नास्ति पुद्गलानाम्, लोकलक्षणस्यावगाहक्षेत्रस्याप्यसङ्ख्येयप्रदेशत्वादिति । कालत आह15 एगा एगसमएत्यादि, एकं समयं यावत् स्थितिः परमाणुत्वादिना एकप्रदेशावगाढादित्वेन एकगुणकालादित्वेन वाऽवस्थानं येषां ते एकसमयस्थितिकाः, तेषामिति, इह च अनन्तसमयस्थितेः पुद्गलानामभावाद् असंखेज्जसमयट्टितीयाणमित्युक्तमिति । भावतः पुद्गलानाह- एगा एगगुणेत्यादि, एकेन गुणो गुणनं ताडनं यस्य स एकगुणः, एकगुणः कालो वर्णो येषां ते एकगुणकालकाः, तारतम्येन कृष्णतर-कृष्णतमादीनां येभ्य 20 आरभ्य प्रथममुत्कर्षप्रवृत्तिर्भवतीति भावः, तेषाम् । एवं सर्वाण्यपि भावसूत्राणि षष्ट्यधिक द्विशतप्रमाणानि वाच्यानि २६०, विंशत: कृष्णादिभावानां त्रयोदशभिर्गुणनादिति। साम्प्रतं भङ्गयन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणैकत्वमाह- एगा जहन्नप्पएसियाणमित्यादि, जघन्याः सर्वाल्पाः प्रदेशा: १. चारिता: जे२ ॥ २. °त एवाह जे१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy