SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ [सू० ४३] प्रथममध्ययनम् एकस्थानकम् । यावत् अष्टशतमेकसमयेन यदा सिध्यति तदाऽवश्यमेव समयाद्यन्तरं भवतीति ।। __ अन्ये तु व्याचक्षते- अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यत्युत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये जघन्येनैकः उत्कृष्टतोऽष्टचत्वारिंशत्, तदेवं सर्वत्र जघन्येनैकः समय उत्कृष्टतो गाथार्थोऽयं भावनीयः- बत्तीसेत्यादि । ___ एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानां 5 वर्गणैकत्वमुक्तम्, इदानीं परम्परसिद्धानामुच्यते, तत्र अपढमसमयसिद्धाणमित्यादित्रयोदशसूत्री, न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्तिनः, तेषाम् । एवं जाव त्ति करणाद् ‘दुसमयसिद्धाणं ति-चउ-पंच-छ-सत्त-ऽट्ठ-नव-दससंखेज्जा-ऽसंखेज्जसमयसिद्धाण'मिति दृश्यम्, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विसमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्ये नाप्रथमसमयाभिधानं विशेषतो 10 द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा, क्वचित् पढमसमयसिद्धाणं ति पाठः, तत्र अनन्तर-परम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसमयसिद्धा एव व्याख्यातव्याः, व्यादिसमयसिद्धास्तु यथाश्रुता एवेति । [सू० ४३] [१] एगा परमाणुपोग्गलाणं वग्गणा, एवं जाव एगा अणंतपएसियाणं पोग्गलाणं वग्गणा १। एगा एगपदेसोगाढाणं पोग्गलाणं 15 वग्गणा जाव एगा असंखेजपदेसोगाढाणं पोग्गलाणं वग्गणा २। एगा एगसमयट्ठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमयट्टितियाणं पोग्गलाणं वग्गणा ३। एगा एगगुणकालगाणं पोग्गलाणं वग्गणा जाव एगा असंखेजगुणकालगाणं पोग्गलाणं वग्गणा, एगा अणंतगुणकालगाणं पोग्गलाणं वग्गणा । एवं वण्ण-गंध-रस-फासा भाणियव्वा जाव एगा 20 अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा ४। [२] एगा जहन्नपतेसियाणं खंधाणं वग्गणा, एगा उक्कस्सपतेसियाणं खंधाणं वग्गणा, एगा अजहन्नुक्कस्सपतेसियाणं खंधाणं वग्गणा १, एवं जहन्नोगाहणगाणं उक्कस्सोगाहणगाणं अजहन्नुकस्सोगाहणगाणं २, जहन्नट्ठितियाणं १. 'एगा अपढमसमयसिद्धाणं वग्गणा एवं दुसमयसिद्धाणं ति-चउ-पंच-छ-सत्त-ऽट्ठ-नव-दस-संखेजाऽसंखेजसमयसिद्धाणं अणंतसमयसिद्धाणं वगणा' इति त्रयोदश सूत्राणि ज्ञेयानि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy