SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ५४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे ५, तथा प्रतीत्यैकं किञ्चित् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धा: बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते तथा, तेषाम् ६, स्वयम्बुद्ध-प्रत्येकबुद्धानां च बोध्युपधि-श्रुत-लिङ्गकृतो विशेषः, तथाहि- स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः, प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वादीनामिवेति । उपधिः स्वयम्बुद्धानां 5 पात्रादिदशविधः, तद्यथा पत्तं १ पत्ताबंधो २ पायट्ठवणं ३ च पायकेसरिया ४ । पडलाइं ५ रयत्ताणं च ६ गोच्छओ ७ पायनिज्जोगो ॥ तिन्नेव य पच्छागा १० रयहरणं ११ चेव होइ मुहपोत्ति १२॥[ओघनि० ६६८-६६९] त्ति। प्रत्येकबुद्धानां तु नवविधः प्रावरणवज इति । स्वयम्बुद्धानां पूर्वाधीते श्रुते 10 अनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव । लिङ्गप्रतिपत्तिः स्वयम्बुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धानां तु देवता प्रयच्छतीति । बुद्धबोधिताः आचार्यादिबोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, तेषाम् ७ । एतेषामेव स्त्रीलिङ्गसिद्धानां ८ पुंलिङ्गसिद्धानां ९ नपुंसकलिङ्गसिद्धानां १० स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया ११ अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां 15 १२ गृहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनाम् १३ एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानाम् १४ अनेकसिद्धानामेकसमये व्यादीनाम् अष्टशतान्तानां सिद्धानामेका वर्गणेति १५ । तत्रानेकसमयसिद्धानां प्ररूपणागाथा बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धव्वा । चुलसीई छन्नई दुरहियमद्रुत्तर सयं च ॥ [ बृहत्सं० २४७] 20 एतद्विवरणम्- यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिध्यन्ति तदा द्वितीयेऽपि समये द्वात्रिंशद्, एवं नैरन्तर्येण अष्टौ समयान् यावत् द्वात्रिंशत् सिध्यन्ति, तत ऊर्ध्वमवश्यमेवान्तरं भवतीति, यदा पुनस्त्रयस्त्रिंशत आरभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिध्यन्ति तदा निरन्तरं सप्त समयान् यावत् सिध्यन्ति, ततोऽवश्यमेवान्तरं भवतीति । एवं यदा एकोनपञ्चाशतमादिं कृत्वा यावत् षष्टिरेकसमयेन सिध्यन्ति तदा 25 निरन्तरं षट् समयान् सिध्यन्ति, तदुपरि अन्तरं समयादि भवति । एवमन्यत्रापि योज्यम्, १. निशीथभाष्ये १३९३-९४ तथा ५७८७-८८ । २. शदारभ्य पा० जे२ ॥ ३. 'यादिर्भ° पा० ख० ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy