________________
[सू० ४२]
प्रथममध्ययनम् एकस्थानकम् । भौतादिप्रवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वाद्, अप्रधानत्वं च भावतस्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्, सावद्यत्वादस्येति, भावतीर्थं तु सङ्घो यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाच्च भावभूतात् तारयतीति, आह च
जं णाण-दसण-चरित्तभावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ [विशेषाव० १०३३] ति। 5 त्रिषु वा क्रोधाग्निदाहोपशम-लोभतृष्णानिरास-कर्ममलापनयनलक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थम्, प्राकृतत्वात् तित्थं, आह च
दाहोवसमादिसु वा जं तिसु थियमहव दंसणाईसुं ।
तो तित्थं संघो च्चिय उभयं च विसेसणविसेसं ॥ [विशेषाव० १०३५] ति । 'विशेषणविशेष्य'मिति तीर्थं सङ्घ इति सङ्घो वा तीर्थ मिति । त्रयो वा 10 क्रोधाग्निदाहोपशमादयोऽर्थाः फलानि यस्य तत् त्र्यर्थम्, तित्थं ति पूर्ववत्, आह च
कोहग्गिदाहसमणादओ व ते चेव तिन्नि जस्सऽत्था । होइ तियत्थं तित्थं तमत्थसहो फलत्थोऽयं ॥ [विशेषाव० १०३६] ति । अथवा त्रयो ज्ञानादयोऽर्थाः वस्तूनि यस्य तत् त्र्यर्थम्, आह चअहवा सम्मइंसण-नाण-चरित्ताई तिनि जस्सऽत्था । तं तित्थं पुव्वोदियमिहमत्थो वत्थुपज्जाओ ॥ [विशेषाव० १०३७] त्ति । ।
तत्र तीर्थे सति सिद्धाः निर्वृतास्तीर्थसिद्धा ऋषभसेनगणधरादिवत्, तेषां वर्गणेति १। तथा अतीर्थे तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषाम् २ । एवंकरणात् ‘एगा तित्थगरसिद्धाणं वग्गणे'त्यादि दृश्यम्, तीर्थमुक्तलक्षणम्, तत् कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थकराः,आह च- 20
अणुलोम-हेउ-तस्सीलयाय जे भावतित्थमेयं तु । कुव्वंति पगासंति उ ते तित्थगरा हियत्थकरा ॥ [विशेषाव० १०४७] इति । तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत्, तेषाम् ३, अतीर्थकरसिद्धा: सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत्, तेषाम् ४, तथा स्वयम् आत्मना बुद्धाः तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते तथा, तेषाम् 25 १. अर्थेषु त्रिषु तिष्ठ जे१ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org