________________
[सू० ४६-४८]
प्रथममध्ययनम् एकस्थानकम् । एगो भगवं वीरो तेत्तीसाए सह निव्वुओ पासो ।
छत्तीसएहिं पंचहिं सएहिं नेमी उ सिद्धिगओ ॥ [आव० नि० ३०८] इत्यादि । [सू० ४६] अणुत्तरोववातिया णं देवा णं एगं रतणिं उटुंउच्चत्तेणं पन्नत्ता।
[टी०] एकाकी वीरो निर्वृत इत्युक्तम्, निर्वृतक्षेत्रासन्नानि चानुत्तरविमानानीति तन्निवासिदेवमानमाह- अणुत्तरेत्यादि, अनुत्तरत्वादनुत्तराणि विजयादिविमानानि, तेषु 5 य उपपातो जन्म स विद्यते येषां तेऽनुत्तरोपपातिकास्ते, शंकारौ वाक्यालङ्कारे, देवाः सुरा एकां रनिं हस्तं यावत् ‘क्रोशं कौटिल्येन नदी तिवदिह द्वितीया, उडुंउच्चत्तेणं ति वस्तुनो ह्यनेकधोच्चत्वम्, ऊर्द्धस्थितस्यैकमपरं तिर्यस्थितस्यान्यत् गुणोन्नतिरूपम्, तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तदूर्दोच्चत्वमित्यागमे रूढमिति तेनोर्दोच्चत्वेन, अनुस्वारः प्राकृतत्वात्, प्रज्ञप्ताः प्ररूपिताः सर्वविद्भिरिति, अथवा अनुत्तरोपपातिकानां 10 देवानामूर्दोच्चत्वेन प्रमाणमिति शेषः, एका रत्निः प्रज्ञप्तेति व्याख्येयमिति ।
[सू० ४७] अदाणक्खत्ते एगतारे पन्नत्ते १। चित्ताणक्खत्ते एगतारे पन्नत्ते २। सातीणक्खते एगतारे पन्नत्ते ३।
[टी०] देवाधिकारादेव नक्षत्रदेवानाम् अद्दानक्खत्ते इत्यादिना कण्ठ्येन सूत्रत्रयेण तारैकत्वमुक्तम्, तारा च ज्योतिर्विमानरूपेति, कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम्- 15
छ ६ प्पंच ५ तिन्नि ३ एगं १ चउ ४ तिग ३ रस ६ वेय ४ जुयल २ जुयलं च २ । इंदिय ५ एगं १ एगं १ विसय ५ ऽग्गि ३ समुद्द ४ बारसगं १२ ॥ चउरो ४ तिन्नि य ३ तिय ३ तिय ३ पंच ५ सत्त ७ बे २ बे २ भवे तिया तिन्नि ३-३-३।। रिक्खे तारपमाणं जइ तिहितुल्लं हयं कज्जं ॥ [ ] ति ।।।
इह चैकस्थानकानुरोधान्नक्षत्रत्रयस्य ताराप्रमाणमुक्तम्, शेषनक्षत्राणां तु 20 प्रायोऽग्रेतनाध्ययनेषु तद् वक्ष्यति, यस्तु क्वचिद्विसंवादस्ताराप्रमाणस्य स तथाविधप्रयोजनेषु तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभत्वसूचनार्थत्वेनोक्तगाथयोर्मतान्तरभूतत्वान्न बाधक इति ।
[सू० ४८] एगपदेसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयट्टितीया। एगगुणकालगा पोग्गला अणंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अणंता 25 पन्नत्ता ।
॥ एगट्ठाणं समत्तं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org