________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते स्थानाङ्गसूत्रे
सम्यक्त्वपुञ्जं मिथ्यात्वपुञ्जं वा गच्छतीति सम्यग्दृष्टि- मिध्यादृष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्रयमस्ति, अत उक्तम् - एवं जाव थणिएत्यादि, पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषां तेनैव व्यपदेशः, उक्तं च- च तस सेसया मिच्छ [ जीवसमा०२६] त्ति, चतुर्द्दशगुणस्थानकवन्तस्त्रसाः, स्थावरास्तु 5 मिथ्यादृष्टय एवेत्यर्थः । द्वीन्द्रियादीनां मिश्रं नास्ति, संज्ञिनामेव तद्भावात्, ततस्तेषु सम्यग्दृष्टि-मिथ्यादृष्टितयैव व्यपदेशः । एवं तेइंदियाण वि चउरिंदियाण वि द्वीन्द्रियवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम्, पञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तद्व्यपदेशः, अत एवोक्तम्- सेसा जहा नेरइय त्ति, तथा वाच्या इति शेषः, दण्डकपर्यन्तसूत्रं पुनरिदम् 'एगा सम्मद्दिट्ठियाणं वेमाणियाणं वग्गणा, एवं 10 मिच्छद्दिट्ठियाणं एवं सम्मामिच्छदिट्ठियाणं', एतत्पर्यन्तमाह- जाव एगा सम्मामिच्छेत्यादि ३ ।
15
20
५०
एगा कण्हपक्खियाणं इत्यादि, कृष्णपाक्षिकेतरयोर्लक्षणम् - जेसिमवडो पोग्गल परियो सेसओ उ संसारो ।
ते सुक्कपक्खिया खलु अहिए पुण किण्हपक्खीय ॥ [ श्रावकप्र० ७२] त्ति ।
एतद्विशेषितोऽन्यो दण्डकः ।
एगा कण्हलेसाणमित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह श्लेष इव वर्णबन्धस्य कर्म्मबन्धस्थितिविधात्र्यः । [ प्रशम० ३८ ], तथा कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः ।
स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते ॥ ] इति ।
इयं च शरीरनामकर्म्मपरिणतिरूपा योगपरिणतिरूपत्वात्, योगस्य च शरीरनामकर्म्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता– योगपरिणामो लेश्या,
१. पुढवि - दग - अगणि- मारुय - साहारणकाईया चउद्धा उ । पत्तेय तसा दुविहा चोद्दस तस सेसया मिच्छा ||२६|| इति सम्पूर्णा गाथा जीवसमासे ॥ २. पक्खीउ त्ति जे१ खं० पा० । ३. “लिशि संश्लेषणे [ ] इत्यस्य धातोर्लेशनं लेश्या । उक्तं च- ताः कृष्ण-नील- कापोत- तैजसी - पद्म - शुक्लनामान: । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥ [प्रशम० ३८ ], योगपरिणामश्च लेश्या । कथं पुनर्योगपरिणामो लेश्या ? यस्मात् सयोगिकेवली शुक्लेश्यापरिणामेन विहृत्य अन्तर्मुहूर्ते शेषे योगनिरोधं करोति । ततोऽयोगित्वं [अलेश्यत्वं च] प्राप्नोति । अतोऽवगम्यतेयोगपरिणामो लेश्येति । स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तम्- कर्म हि कार्मणस्य कारणमन्येषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org