________________
[सू० ४१]
प्रथममध्ययनम् एकस्थानकम् । समाने सति को भव्या-ऽभव्ययोर्विशेषः ?, उच्यते, स्वभावकृतः, द्रव्यत्वेन समानयोर्जीव-नभसोरिव, आह चदव्वाइत्ते तुल्ले जीव-नभाणं सभावओ भेदो । जीवा-ऽजीवाइगओ जह तह भव्वेयरविसेसो ॥ [विशेषाव० १८२३] त्ति । आभ्यां विशेषितोऽन्यो दण्डकः २ ।
5 ___एगा सम्मद्दिट्ठियाणमित्यादि, सम्यग् अविपरीता दृष्टिः दर्शनं रुचिस्तत्त्वानि प्रति येषां ते सम्यग्दृष्टिकाः, ते च मिथ्यात्वमोहनीयक्षय-क्षयोपशमोपशमेभ्यो भवन्ति, तथा मिथ्या विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टिः दर्शनं श्रद्धानं येषां ते मिथ्यादृष्टिकाः, मिथ्यात्वमोहनीयकर्मोदयादरुचितजिनवचना इति भावः, उक्तं चसूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः ।
10 मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥ [ ] इति ।
तथा सम्यक् च मिथ्या च दृष्टिपेषां ते सम्यग्मिथ्यादृष्टिकाः, जिनोक्तभावान् प्रत्युदासीनाः, इह च गम्भीरभवोदधिमध्यविपरिवर्ती जन्तुरनाभोगनिर्वर्त्तितेन गिरिसरिदुपलघोलनकल्पेन यथाप्रवृत्तकरणेन संपादितान्तःसागरोपमकोटीकोटीस्थितिकस्य मिथ्यात्ववेदनीयस्य कर्मणः स्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणा- 15 ऽनिवृत्तिकरणसंज्ञिताभ्यां विशुद्धिविशेषाभ्यामन्तर्मुहूर्त्तकालप्रमाणमन्तरकरणं करोति, तस्मिन् कृते तस्य कर्मणः स्थितिद्वयं भवति, अन्तरकरणादधस्तनी प्रथमस्थितिरन्तर्मुहूर्त्तमात्रा, तस्मादेवोपरितनी शेषा, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिः, अन्तर्मुहूर्तेन तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यक्त्वं प्राप्नोति, मिथ्यात्वदलिकवेदनाऽभावात्, यथा हि दवानल: 20 पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायतीति, तदेवं सम्यक्त्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयमशुद्ध कर्म त्रिधा भवति-अशुद्धमर्धविशुद्धं विशुद्धं चेति, त्रयाणां तेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशादर्द्धविशुद्धमर्हदृष्टतत्त्वश्रद्धानं भवति जीवस्य, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिर्भवति अन्तर्मुहूर्तं यावत्, तत ऊर्ध्वं 25 १. "हूर्तेन तु तस्या पा० जे२ ॥ २. °त्वमाप्नोति पा० जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org