SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ [सू० ४१] प्रथममध्ययनम् एकस्थानकम्। कथं पुनर्योगपरिणामो लेश्या ?, यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति,अतोऽवगम्यते योगपरिणामो लेश्येति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तम्- कर्म हि कार्मणस्य कारणमन्येषां च शरीराणाम् [ ] इति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष: काययोग: १, तथौदारिक-वैक्रिया-ऽऽहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स 5 वाग्योगः २, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनोयोग इति ३, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति [प्रज्ञापनावृ० १७।२] । अन्ये तु व्याचक्षते- कर्मनिस्यन्दो लेश्या [ ] इति । सा च द्रव्य-भावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति । इयं च षट्प्रकारा जम्बूफलखादकपुरुषषट्कदृष्टान्ताद् 10 ग्रामघातकचौरपुरुषषट्कदृष्टान्ताद्वा आगमप्रसिद्धादवसेयेति । तत्सूत्राणि सुगमानि, नवरं कृष्णवर्णद्रव्यसाचिव्यात् जाताऽशुभपरिणामरूपा कृष्णा सा लेश्या येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीला ईषत्सुन्दररूपा । एवमिति अनेनैव क्रमेण यावत्करणात् 'एगा कवोयलेसाण'मित्यादि सूत्रत्रयं दृश्यम्, तत्र कपोतस्य पक्षिविशेषस्य वर्णेन तुल्यानि यानि द्रव्याणि, धूम्राणि इत्यर्थः, तत्साहाय्यजाता कापोतलेश्या मनाक् शुभतरा, 15 सा लेश्या येषां ते तथा, तेजः अग्निज्वाला, तद्वर्णानि यानि द्रव्याणि, लोहितानीत्यर्थः, तत्साचिव्यजाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि, पीतानीत्यर्थः तत्साचिव्यजाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला, अत्यन्तशुभेति, एतासां च विशेषतः स्वरूपं लेश्याध्ययनादवसेयमिति । एवं जस्स जइ त्ति मारकाणामिव यस्याऽसुरादेर्या यावत्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यम् । 20 प्रवणेत्यादिना तल्लेश्यापरिमाणमाह । अत्र सङ्ग्रहणी शरीराणाम् [ ] इति । तस्मादौदारिकादिशरीरयुक्तस्य आत्मनो वीर्यपरिणतिविशेष: काययोगः । तथैवौदारिकमैक्रिया-ऽऽहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स वाग्योगः । तथौदारिकादिशरीरव्यापाराहृत हसाचिव्याज्जीवव्यापारो यः स मनोयोग इति । ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति ॥” इति आ० श्रीहरिभद्रसूरिविरचितायां प्रज्ञापनावृत्तौ सप्तदशे लेश्यापदे द्वितीये उद्देशके ।। १. कपोत जे२ ।। २. "व्याजाता जे१ ॥ ३. उत्तराध्ययनसूत्रे ३४ तमं लेश्याध्ययनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001027
Book TitleAgam 03 Ang 03 Sthananga Sutra Part 01
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2003
Total Pages828
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, & agam_sthanang
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy