SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आमुखम् ___ ततः परं शीलाचार्यैः संस्कृतभाषायां विरचिता महती वृत्तिरुपलभ्यते । इमामेव महतीं वृत्ति प्राधान्येन उपजीव्य कालान्तरेऽन्यैर्विरचिता दीपिकादयोऽनेकाः संक्षिप्ता वृत्तयोऽपि उपलभ्यन्ते। अत्र 'वृत्ति' शब्देन इयमेव महती वृत्तिः तत्र तत्रास्माभिर्विवक्षिता, 'वृत्तिकार'शब्देनापि शीलाचार्या एव विवक्षिताः। शीलाचार्याणामेव शीलाङ्काचार्यनाम्ना प्रसिद्धिः। स्वयमेव तैः 'शीलाचार्य'नाम्नैव स्वनिर्देशस्तत्र तत्र विहित इति अस्माभिरपि 'शीलाचार्य 'नाम्ना अत्र तेषु तेषु स्थानेषु निर्देशो विहितः। एभिरेवाचार्यैराचारागसूत्रस्य वृत्तिर्विरचिता, सा च ७८४ शकसंवत्सरे [= विक्रमसंवत् . ९१८] विरचिता इत्येकत्र हस्तलिखितादर्श उल्लेखः, अन्यत्र तु ७९८ शकसंवत्सरे [= विक्रमसंवत् ९३२] विरचिता इत्युल्लेखः। अत्रार्थे आचारागसूत्रस्य प्रस्तावना पृ० ४९, आमुखं पृ० ५९, स्त्रीनिर्वाण केवलिभुक्तिप्रकरणप्रस्तावना पृ० 16, 23 इत्यत्र च जिज्ञासुभिर्विलोकनीयम् । प्रतयः-अस्य सूत्रकृताङ्गस्य संशोधने आधारभूतानां प्रतीनां स्वरूपं संक्षेपत ईदृशम्खं१ = श्रीशान्तिनाथतालपत्रीयजैनज्ञानभंडार(खंभात)सत्का प्रतिः। Catalogue of Palm leaf Manuscripts in the śāntinātha Jaina Bhandar, Cambay, Part One, Gaekwad's Oriental Series, Baroda, No. 135 इत्येतदनुसारेण अस्याः क्रमाङ्कः ६ वर्तते। ३१.७॥४२.२॥ Inches अस्याः प्रमाणम् । अत्र ४२९ पत्राणि । तत्र १-३६३ पत्रेषु शीलाचार्यविरचिता सूत्रकृताङ्गवृत्तिः, ३६४-३७१A पत्रेषु सूत्रकृताङ्गनियुक्तिः, ३७१ B-४२९ पत्रेषु सूत्रकृताङ्गसूत्रम् । विक्रमसंवत् १३२७ वर्षे भाद्रपद वदि ५ रवौ वीजापुरनगरेऽस्या लेखनं समाप्तम् । खं२ = इयमपि उपरिनिर्दिष्टशान्तिनाथतालपत्रीयजैनशानभंडारसत्का प्रतिः। अस्या क्रमाङ्कः ७ वर्तते। अस्या दैर्ध्यायामौ ३०.७"४२.२" Inch प्रमितौ। अत्र ४६३ पत्राणि । तत्र १-६४ • पत्रेषु सूत्रकृताङ्गसूत्रं वर्तते, ६५-७२ पत्रेषु सूत्रकृताङ्गनियुक्तिः, ७३-४६३ पत्रेषु सूत्रकृताङ्गवृत्तिवर्तते। अन्ते दीर्घा लेखकप्रशस्तिर्वर्तते । विक्रमसंवत् १३४९ वर्षे दयावटग्रामेऽस्या लेखनं समाप्तमें। पा०=संघवीपाडाजैनज्ञानभंडार (पाटण) सत्केयं प्रतिः। सम्प्रति श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे पाटणनगरे वर्तते। तत्रस्थसूच्यनुसारेण अस्याः क्रमाङ्कः ३१ (३) वर्तते। Catalogue of the Palmleaf Mss. in the Patan Bhandara, Gaekwad's Oriental Series, Baroda No. 76 इति सूचौ तु ३९७ (१-२) क्रमाङ्कः। अत्र १-५४ पत्राणि। तत्र १-४८ पत्रेषु सूत्रकृताङ्गसूत्रम् , ४८-५४ पत्रेषु सूत्रकृताङ्गनियुक्तिः। विक्रमसंवत् १४६८ वर्षे पत्तन (पाटण) नगरे लिखितेयं प्रतिः। इमास्तिस्रस्तालपत्रोपरि लिखिताः प्रतयः। अथ कागदपत्रोपरि लिखिताश्चत्वारः प्रतयःपु१ = लालभाई दलपतभाई भारतीयसंस्कृतिविद्यामन्दिर(अहमदाबाद)सत्का मुनिराजश्रीपुण्य विजयजीमहोदयकृतसंग्रहान्तर्गता प्रतिः। सूच्यनुसारेणास्याः क्रमाङ्कः ८४०२। पत्राणि ४८। विक्रमसंवत् १७१४ वर्षे नवानगरे (जामनगरे) लिखितेयम् । पु२= इयमपि उपरिनिर्दिष्टसंग्रहान्तर्गतैव, क्रमाङ्कस्त्वस्याः ८३६३ । पत्राणि ३९ । लिप्यनुसारेण वैक्रमे षोडशे शतके लिखितेयं भाति । १. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ०३८ पं० १२॥ २. दृश्यतामस्य सूत्रकृताङ्गस्य प्रस्तावना पृ० ३८ टि. २ पृ. ३९ टि.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy