SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आमुखम् ५३ . ला=इयमपि उपरिनिर्दिष्टला००विद्यामन्दिरसत्का। अस्याः क्रमाङ्कः १४५२८ । पत्राणि ३९। इयमपि वैक्रमे षोडशे शतके लिखिता भाति ।' सं०=अहमदाबादनगरे ‘हाजापटेलनी पोळ, संवेगीनो उपाश्रय' इत्यत्र जैनज्ञानभंडारे विद्यमानेयं प्रतिः। तत्रस्थसूचिपत्रानुसारेण क्रमाङ्कः ३६७४ अस्ति । पत्राणि ३५२। अस्यां प्रतौ मध्ये सूत्रकृताङ्गसूत्रं लिखितम् , उपरि अधस्ताच्च शीलाचार्यविरचिता टीका लिखिता। इयं प्रतिर्वैक्रमे षोडशे सप्तदशे वा शतके लिखिता भाति । इत्येवं सप्त हस्तलिखिता आदर्शा अस्य संशोधने उपयुक्ताः। मु० = आगमोदयसमित्या विक्रमसंवत् १९७३ (1917 A. D.) वर्षे प्रकाशिता शीलाचार्यविरचित वृत्तियुक्तेयं प्रतिः। अस्या विशेषत उपयोगो द्वितीयश्रुतस्कन्धस्य टिप्पणेष्वेव पाठान्तरनिर्देशार्थ तेषु तेषु स्थलविशेषेषु अस्माभिर्विहितः। मु०प्रतेराधारभूताः के हस्तलिखितादर्शा इति तु वयं न किमपि जानीमः। न च मु०प्रतावपि किञ्चिन्निर्दिष्टम् । मु० प्रतावनेकेऽशुद्धपाठा अशुद्धाश्च पदच्छेदा दृश्यन्ते। खं१, २ प्रती अस्माभिः स्वयं न दृष्टे, किन्तु मुनिराजश्रीपुण्यविजयजीमहाभागैः खं १,२ प्रतिस्था ये पाठभेदाः संग्रहीतास्तेषामेवोपयोगो विहितोऽस्माभिः। एते च पाठभेदा वारत्रयं संग्रहीता भिन्नभिन्नकाले, तत्र च लेखकप्रमादादिना क्वचिद् भेदो दृश्यते तथापि ते प्रायश एकरूपा एव। पा० प्रतिः प्रथमश्रुतस्कन्धमुद्रणानन्तरमस्माभिर्लब्धा, अतो द्वितीयश्रुतस्कन्धे एव तस्या उपयोगो विहितः। सं० प्रतिरपि क्वचित् क्वचिद् विशिष्टस्थलेष्वेवोपयुक्ता। धन्यवादः-अस्या जैनागमग्रन्थमालायाः प्रकाशने बीजरूपाः प्राणभूताश्च स्व० आगमप्रभाकरमुनिराजश्री पुण्यविजयजीमहाभागाः। अस्य संशोधनायोपयोगिनी प्रायः सर्वापि सामग्री महता परिश्रमेण तैरेव संगृहीता। __ अहमदाबादनगरे लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरे विद्यमानेयं सामग्री तत्रत्यभूतपूर्वनियामकैः ‘पं० दलसुखभाई मालवणिया' महोदयैर्महता सौजन्येन प्रदत्ता, विविधसूचनादिभिश्चापि साहायकमनुष्ठितम् । मु. प्रतेः सम्पादकैः स्व० आगमोद्धारकसागरानन्दसूरिभिर्महता महता परिश्रमेण जैनागमादि' विशालग्रन्थराशेः संशोधनं प्रकाशनं च विधाय महानुपकारो विहितः । पा० प्रतिः संघवीपाडाभंडार(पाटण)स्य व्यवस्थापकानां 'स्व० सेवन्तिलाल छोटालाल पटवा' इत्येतेषां पुत्राणां सौजन्यालब्धा। सं० प्रतिः तद्वयवस्थापकानां 'स्व० शेठ मयाभाई सांकळचंद' इत्येतेषां सुपुत्राणां 'नरोत्तमभाई' तथा 'कल्याणभाई' महाशयानां सौजन्याल्लब्धा। मौजमुद्रणालयस्याधिपतिभिः कार्यवाहकैश्च परमेण सौजन्येन मुद्रितोऽयं ग्रन्थः। सीसकाक्षरसंयोजक (कंपोझीटर) वर्गेणापि महता श्रमेण कष्टेन च मुद्रणकार्यमिदं पारं प्रापितम्। ___ श्रीमहावीरजैनविद्यालयस्य कार्यवाहकमहानुभावैर्जिनागमेषु परमभक्त्याङ्गीकृतमिदं विपुलधनव्ययादिसाध्यं जैनागमानां प्रकाशनकार्यम् । तैरेव चैतत्संशोधनद्वारा जिनवचनाराधनाया अवसरो मह्यं प्रदत्तः। __ श्रीमहावीरजैन विद्यालयस्य महामात्रैः 'श्री कान्तिभाई डाह्याभाई कोरा' इत्येभिर्महानुभावैः सर्वापीय मुद्रण-प्रकाशनादिकार्यव्यवस्था महत्या श्रुतभक्त्या परमेण सौजन्येन कौशल्येन च विहिता। १. अस्याः प्रतेरन्ते लिखिता दीर्घा प्रशस्तिः प्रस्तावनायां पृ० ४० टि० ] विलोकनीया ॥ २. आसा सप्तानामपि प्रनीनामन्ते विद्यमाना उल्लेखा अस्य सूत्रकृतास्यान्ते [पृ० २५८] टिप्पणेषु विलोकनीयाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy